________________
तभागसत्कभागद्वयहीनं प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं सार्द्ध षष्ट्यधिकषट्त्रिंशच्छत भागद्वयहीनं प्रकाशयति, तृतीयेऽहोरात्रे तृतीये मण्डले वर्त्तमान एकोऽपि सूर्य एकं पञ्चमं चक्रवालभागं सार्द्धं षष्ट्यधिकपटूत्रिंशच्छ - तभागसत्कभागचतुष्टयन्यूनं प्रकाशयति, अपरोऽप्येकं पञ्चमं चक्रवालभागं सार्द्धं षष्ट्यधिक षटूत्रिंशच्छतभागसत्कभागचतुष्टयन्यूनं प्रकाशयति, एवं प्रत्यहोरात्रमेकैकः सूर्यः षष्ट्यधिकषटूत्रिंशच्छत भागसत्कभागद्वयमोचनेन प्रकाशयन् तावदेव - सेयः यावत्सर्वबाह्यं मण्डलं सर्वाभ्यन्तरान्मण्डलात्परतः व्यशीत्यधिकशततमं ततः प्रतिमण्डलं भागद्वयमोचनेन यदा सर्वबाह्ये मण्डले चरति तदा त्रीणि शतानि षट्षष्ट्यधिकानि भागानां त्रुट्यन्ति, त्र्यशीत्यधिकस्य शतस्य द्वाभ्यां गुणने एतावत्याः सङ्ख्याया भावात् त्रीणि च शतानि षट्षष्ट्यधिकानि पञ्चमचक्रवालभागस्य द्वात्रिंशदधिकसप्तशतभागप्रमाणस्यार्द्ध, ततः पञ्चमचक्रवालभागस्यार्द्ध परिपूर्ण तत्र मण्डले त्रुव्यतीति एक एव परिपूर्णः पञ्चमचक्रवालभागस्तत्र प्रकाश्यः, तथा चाह- 'ता जया ण'मित्यादि, तत्र यदा णमिति पूर्ववत् एतौ प्रवचनप्रसिद्धौ द्वावपि सूर्यो सर्वबाह्यमण्डलमुपसङ्क्रम्य चारं चरतः तदा तौ समुदितौ जम्बूद्वीपस्य द्वीपस्य द्वौ चक्रवालपञ्चमभागौ अव - भासयत उद्योतयतस्तापयतः प्रकाशयतः, तद्यथा - एकोऽपि सूर्य एकं पञ्चमं चक्रवालभागं प्रकाशयतीत्येकोऽपिअपरोऽपि द्वितीयोऽपीत्यर्थः एकं पञ्चमं चक्रवालभागं प्रकाशयति, 'तया णमित्यादि, तदा सर्वबाह्य मण्डलचा - रकाले उत्तमकाष्ठाप्राता उत्कर्षिका अष्टादशमुहूर्त्ता रात्रिर्जघन्यतो द्वादशमुहूर्त्तप्रमाणो दिवसः, इह यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org