SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ३प्राभृतम् सूर्यप्रज्ञप्तिवृत्तिः (मल०) कथं प्रकाशयत इति परप्रश्नावकाशमाशय एतदेव विभागत आह-'एगोऽवी'त्यादि, एकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्य एकं पञ्चचक्रवालभाग-पञ्चमं चक्रवालभागं यर्द्धमिति-द्वितीयमद्धे यस्य स ब्यर्द्धः, पूरणार्थो वृत्तावन्तर्भूतो यथा तृतीयो भागस्त्रिभाग इत्यत्र, तं, अयं च भावार्थः-एक पञ्चमं चक्रवालभागं द्वितीयस्य पञ्चमस्य चक्रवालभागस्यार्द्धन सहितं प्रकाशयति, तथा एकोऽपि-अपरोऽपि द्वितीयोऽपीत्यर्थः, एक पञ्चमं चक्रवालभागं व्यर्द्ध प्रकाशयतीत्युभयप्रकाशितभागमीलने परिपूर्ण भागत्रयं प्रकाश्यं भवति,इयमत्र भावना-जम्बूद्वीपगतं प्रकाश्यं चक्रवालं षष्ट्यधिकषत्रिंशच्छतभागं कल्प्यते ३६६०, तस्य पञ्चमो भागो द्वात्रिंशदधिकसप्तशतप्रमाणः ७३२, सार्द्धः सन् अष्टानवत्यधिकसहस्रभागमानः १०९८, ततः सर्वाभ्यन्तरमण्डले वर्तमान एकोऽपि सूर्यः षष्ट्यधिकषत्रिंशच्छतसङ्ख्यानां भागानामष्टानवत्यधिक सहस्रं प्रकाशयति, द्वितीयोऽप्यष्टानवत्यधिक सहस्र, उभयमीलने एकविंशतिःशतानि षण्णवत्यधिकानि २१९६ प्रकाश्यमानानि लभ्यन्ते, तदा च द्वौ पञ्चचक्रवालभागौ रात्रिः, तद्यथा-एकतोऽपि पञ्चमो भागो द्वात्रिंशदधिकसप्तशतभागसङ्ख्यो रात्रिरपरतोऽपि एकः पञ्चमभागो द्वात्रिंशदधिकसप्तशतभागसङ्ख्यो रात्रिः, उभयमीलने चतुर्दश शतानि चतुःषष्ट्यधिकानि १४६४ षष्ट्यधिकषत्रिंशच्छतभागानां रात्रिः, सर्वभागमीलने षत्रिंशच्छतानि षष्ट्यधिकानि भवन्ति, सम्प्रति तत्र दिवसरात्रिप्रमाणमाह-'तया ण'मित्यादि, तदा-अभ्यन्तरमण्डलचारकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः उत्कृष्टोऽष्टादशमुहूत्र्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रिः, ततो द्वितीयेऽहोरात्रे द्वितीये मण्डले वर्तमान एकोऽपि सूर्यो जम्बूद्वीपस्य द्वीपस्यैकं पञ्चमं चक्रवालभागं सार्द्ध षष्ट्यधिकषत्रिंशच्छ-1 SARAS5% Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy