________________
&ाधिक द्वीपशतं द्वाचत्वारिंशदधिकं समुद्रशतं चन्द्रसूर्याववभासयतः ९, एके पुनर्दशमा एवं जल्पन्ति-द्वासप्ततं-द्वासप्त-I
त्यधिक द्वीपशतं द्वासप्तत्यधिकं समुद्रशतं चन्द्रसूर्याववभासयतः १०, एके एकादशाः पुनरेवमाहुः-द्वाचत्वारिंशद्वाचत्वारिंशदधिकं द्वीपसहस्रं द्वाचत्वारिंशदधिकं समुद्रसहस्रं चन्द्रसूर्याववभासयतः ११, एके द्वादशाः पुनरेवमाहुःद्वासप्ततं-द्वासप्तत्यधिकं द्वीपसहस्रं द्वासप्तत्यधिकं समुद्रसहस्रं चन्द्रसूर्याववभासयतः १२, एताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपास्तथा च भगवानेता व्युदस्य स्वमतं भिन्नमेव कथयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलचक्षुषः केवलचक्षुषा यथावस्थितं जगदुपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता अयन्न'मित्यादि, अत्र 'जहा जंबुद्दीवपन्नत्तीए'त्ति यथा जम्बूदीपप्रज्ञप्तौ 'अयण्णं जंबुद्दीवे इत्यारभ्य यावत् एवामेव सपुवावरेणं जंबुद्दीवे दीवे चोइस सलिलसयसहस्साई छप्पन्नं च सलिलासहस्सा भवंतीति मक्खाय' मित्युक्तं, तथा एतावद्ग्रन्थसहस्रचतुष्टयप्रमाणमत्रापि वक्तव्यं परं ग्रन्थगौरवभयान लिख्यते, केवलं जम्बूद्वीपप्रज्ञप्तिपुस्तकमेव निरीक्षणीयमिति, अयमेवरूपो जम्बूद्वीपः पञ्चभिः पञ्चसञ्जयोपेतैश्चक्रभागैः-चक्रवालभागैः संस्थित आख्यातो मया इति वदेत्स्वशिष्याणां पुरतः, एवमुक्ते भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधार्थ भूयः पृच्छति-'ता कह'मित्यादि, ता इति पूर्ववत् , कथं भगवान् ! त्वया जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थित आख्यात इति वदेत् , भगवानाह-'ता जया ण'मित्यादि, ता इति पूर्ववत्, यदा णमिति वाक्यालङ्कारे, एतौ प्रवचनवेदिनां प्रसिद्धौ द्वौ सूर्यो सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरतः तदा तो समुदितौ द्वावपि सूर्यो जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चचक्रवालभागान् अवभासयत उद्योतयतस्तापयतः प्रकाशयतः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org