________________
३प्राभूतम्
सूर्यप्रज्ञतिवृत्तिः (मल०) ०६४॥
PRASAॐॐ
स्तापयन्तः प्रकाशयन्त आख्याता भगवतेति भगवान् वदेत् ?, एवं गौतमेनोक्ते भगवानेतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोपन्यस्यति-तत्थे'त्यादि, तत्र-चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खलु द्वादश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तद्यथा-'तत्थे'त्यादि, तत्र-तस्यां द्वादशानां परतीथिकानां मध्ये एके-* प्रथमास्तीर्थान्तरीया एवमाहुः, एक द्वीपं एक समुद्रं चन्द्रसूर्यो अवभासयन्तौ उद्योतयन्तौ तापयन्तौ प्रकाशयन्तौ, सूत्रे द्वित्वेऽपि बहुवचनं प्राकृतत्वात् , उक्तं च-'बहुवयणेण दुवयण'मिति, द्विवचनं चात्र तात्त्विकमवसेयं, परतीर्थिकैरेकस्य
चन्द्रमस एकस्य च सूर्यस्याभ्युपगमात्, सम्प्रति अस्यैव प्रथममतस्योपसंहारमाह-एगे एवमासु' एवं सर्वाण्यपि उप| संहारवाक्यानि भावनीयानि१, एके द्वितीयाः पुनरेवमाहुः-त्रीन द्वीपान त्रीन् समुद्रान चन्द्रसूर्यौ यावच्छ(एकश)ब्दोपादा-3
नात् अवभासयत इत्यनेन सह पदचतुष्टयं द्रष्टव्यं, तद्यथा-अवभासयत उद्योतयतस्तापयतः प्रकाशयत इति, एवमुत्त| स्त्रापि द्रष्टव्यं, २, एके पुनस्तृतीया एवमाहुः- अद्धचउत्थे' इति अर्द्ध चतुर्थं येषां ते अर्द्धचतुर्थाः, त्रयः परिपूर्णाश्चतुर्थस्य है चार्द्धमित्यर्थः, अर्द्ध चतुर्थान् द्वीपान् अर्धचतुर्थान् समुद्रान् चन्द्रसूर्याववभासयत इत्यादि प्राग्वत् ३, एके चतुर्थाः पुनरेवमाहुः-सप्तद्वीपान सप्त समुद्रान् चन्द्रसूर्याववभासयतः४, एके पुनः पञ्चमा एवमाचक्षते-दश द्वीपान दश समुद्रान् चन्द्रसूर्याववभासयतः ५, एके पुनः षष्ठा एवमभिदधति-द्वादश द्वीपान् द्वादश समुद्रान् चन्द्रसूर्याववभासयतः ६, एके पुनः सप्तमा एवं भाषन्ते-द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्याववभासयतः ७, एके पुनरष्टमा एवमाहुःद्वासप्तति द्वीपान द्वासप्तति समुद्रान् चन्द्रसूर्याववभासयतः ८, एके पुनर्नवमा एवमाहुः-द्विचत्वारिंश-द्वाचत्वारिंशद
॥६४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org