________________
सूर्यप्रज्ञ
प्राभृतम्
प्तिवृत्तिः (मल०) ॥६६॥
निष्कामतोः सूर्ययोर्जम्बूद्वीपविषयःप्रकाशविधिः क्रमेण हीयमान उक्तः तथा सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतोः क्रमेण वर्द्धमानो वेदितव्यः, तद्यथा-द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादाक्तनेऽनन्तरे द्वितीये मण्डले वर्तमान एकोऽपि सूर्य एक जम्बूद्वीपस्य द्वीपस्य पञ्चमचक्रवालभागं षष्ट्यधिकषत्रिंशच्छतसङ्ख्यभागसत्कभागद्वयाधिक प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषत्रिंशच्छतसक्यभागसत्कभागद्वयाधिकं प्रकाशयति, द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलादाक्तने तृतीये मण्डले वर्तमान एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषट्त्रिंशच्छतसंख्यभागसत्कभागचतुष्टयाधिकं प्रकाशयति, अपरोऽपि सूर्यः परत एकं पञ्चमं चक्रवालभागं यथोक्तभागचतुष्टयाधिकं प्रकाशयति, एवं प्रतिमण्डलमेकैकः सूर्यः षष्ट्यधिकषत्रिंशच्छतभागसत्कभागद्वयवर्द्धनेन प्रकाशयन् तावदवसेयः यावत्सर्वाभ्यन्तरं मण्डलं, तस्मिंश्च सर्वाभ्यन्तरे मण्डले द्वितीयस्य पञ्चमचक्रवालभागस्यार्द्ध परिपूर्ण भवति, तत एकोऽपि सूर्यस्तत्र मण्डले एकं पञ्चमं चक्रवालभागं सार्द्ध जम्बूद्वीपस्य प्रकाशयत्यपरोऽप्येकं पञ्चमं चक्रवालभागं सार्द्ध, तथा चैतदेव जम्बूद्वीपचक्रवालस्य दश भागान् परिकल्प्यान्यत्राप्युक्तम्-'छच्चेव उ दसभागे जंबुद्दीवस्स दोवि दिवसयरा। ताविति दित्तलेसा अम्भितरमंडले संता॥१॥चत्तारि य दसभागे जंबुदीवस्स दोवि दिवसयरा । ताविति संतलेसा बाहिरए मंडले संता ॥२॥ छत्तीसे भागसएसडिंकाऊण जंबुदीवस्स । तिरियं तत्तो दो दो भागे वढेइ हायइ वा ॥३॥" इति ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां तृतीयं प्राभृतं समाप्तम् ॥
HARAPATAISAMISAS CAUGHIRLASHES
Jain Education International
For Personal & Private Use Only
nelbaryong