________________
54545450562
सातिरेकाणि पञ्चाशीति योजनानि अग्रेतनेषु चतुरशीति पर्यन्ते यथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् २ तावद् वक्तव्यः यावत्सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चार चरति तदा पञ्च पश्च योजनसहस्राणि द्वे एकपश्चाशदधिके योजनशते एकोनत्रिंशतं च षष्टिभागान योजनस्य ५२५१३. एकेन मुहूर्तेन गच्छति, तदा च इहगतस्य मनुष्यस्य-जातावेकवचनं इहगताना मनुष्याणां सप्तचत्वारिंशता योजनसहस्राभ्यां त्रिषष्टाभ्यां-त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या षष्टिभागैर्योजनस्य ४७२६३ ३. सूर्यश्चक्षुःस्पर्शमागच्छति, एतच्च मुहूर्तगतिपरिमाणं दृष्टिपथप्राप्ततापरिमाणं च प्रागेव भावितं सूत्रकृताऽपि प्रस्तावाद्भय उक्तं ततो न पुनरुक्ततादोषः, 'तया णं उत्तमकट्टपत्ते' इत्यादि सुगम, यावत्प्राभृतप्राभृतपरिसमाप्तिः । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां द्वितीयस्य प्राभृतस्य तृतीयं प्राभृतप्राभृतं समाप्तं ॥ द्वितीयं प्राभृतं समाप्तम् ॥
॥ इति श्रीमत्यां सूर्यप्रज्ञप्तौ द्वितीयं प्राभृतं समाप्तम् ॥ .
acccccere
अथ तृतीयं प्राभृतम् ॥ तदेवमुक्तं द्वितीयं प्राभृतं, सम्प्रति तृतीयमारभ्यते, तस्य चायमाधिकारः, 'कियत्क्षेत्रं चन्द्रः सूर्यो वा प्रकाशयतीति, ततस्तद्विषयं प्रश्नसूत्रमाह
ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोति तवेंति पगासंति आहितातिवदेजा?, तत्थ खलु इमाओ बारस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमासु, ता एगं दीवं एगं समुई चंदिमसूरिया ओभासेंति
BASARASWESS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org