________________
सूर्यप्रज्ञतिवृत्तिः (मल०)
२माभृते ३ प्राभूतप्राभूत
॥६२॥
भवति-द्वात्रिंशत्सहस्राणि पडशीत्यधिकानि योजनानामष्टापश्चाशच्च पष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का | एकादशैकषष्टिभागाः ३२०८६ ।।१, एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्त|तापरिमाणं ज्ञातुमिष्यते तदा षट्त्रिंशद् व्यशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्य मण्डलस्य यशीत्यधिकशततमत्वात् , ततो जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ६५५२, तेषामेकषष्ट्या भागे हृते लब्धं सप्तोत्तरं शतं षष्टिभागानां, शेष पञ्चविंशतिः१०४।२५ एतत्पश्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ८५।। इत्येवंरूपात् ध्रुवराशेः शोध्यते, जातानि पश्चात् त्र्यशीतिर्योजनानि द्वाविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः, इह षट्त्रिंशत् २ एकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते एतच्च प्रागेवोतं, तच्च कलान्यूनत्वं प्रतिमण्डलं भवत् यदा यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते, ततस्ते भूयः प्रक्षिप्यन्ते, ततो जातमिदंत्र्यशीतिर्योजनानि त्रयोविंशतिः पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः ८३३३।१३, एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिक योजनानां सप्तपश्चाशत्पष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः ४७१७९ ।। इत्येवंरूपं सहितं क्रियते, ततो यथोक्तं सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि |P द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्चषष्टिभागा योजनस्य ४७२६३।१ एवं दृष्टिपथप्राप्ततायां कतिपयेषु मण्डलेषु
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org