SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भागाः ३९ एकस्य च षष्टिभागस्य सत्काः षष्टिरेकपष्टिभागाः 'तथा णं राईदियं तहेव' तदा-सर्वबाह्यानन्तरार्वाक्तनद्वितीयमण्डलयोश्चारकाले रात्रिन्दिवं - रात्रिदिवसप्रमाणं तथैव प्रागिव वक्तव्यं तच्चैवम्- 'तया णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्ठिभागमुहुत्तेहि ऊणा, दुवालसमुहुत्ते दिवसे हवइ दोहि एगट्टिभागमुहुत्तेहि अहिए' इति, 'से पविसमाणे इत्यादि, ततः सर्वबाह्यानन्तरार्वाक्तनद्वितीयस्मादपि मण्डलादुक्तप्रकारेण प्रविशन् सूर्यो द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरत चं' ति सर्वबाह्यान्मण्डलादर्वाचनं तृतीयं मण्डलमुपसङ्गम्य चारं चरति 'ता जया ण'मित्यादि तत्र यदा णमिति पूर्ववत् सर्वबाह्यान्मण्डलादर्वाचनं तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा पञ्च पञ्च योजन सहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च षष्टिभागान् योजनस्य ५३०४ एकैकेन मुहूर्त्तेन गच्छति, तस्मिन् हि मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके इति ३१८२७९, अस्य षष्ट्या भागो हियते, हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणं, अत्रापि हि दृष्टिपथप्राप्तता विषयपरिमाणमाह'तया ण' मित्यादि, तदा इहगतस्य मनुष्यस्य - जातावेकवचनस्य भावादिहगतानां मनुष्याणामेकाधिकैर्द्वात्रिंशता सहस्रैरेकोनपञ्चाशता षष्टिभागैरेकं च षष्टिभागमेकपष्टिधा छित्त्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्यः चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्त्त प्रमाणश्चतुर्भिरेक षष्टिभागैरधिकस्तस्यार्द्ध षट् मुहूर्त्ता द्वाभ्यां मुहर्त्तकषष्टिभागाभ्यामधिकाः, ततः सामस्त्येनैकषष्टिभागकरणार्थं पडपि मुहूर्त्ता एकषष्ट्या गुण्यन्ते, गुणयित्वा च द्वावेकष ष्टिभागौ प्रक्षिप्येते, ततो जातानि त्रीणि शतान्यष्टषष्ट्यधिकान्येकषष्टिभागानां ३६८, ततोऽस्मिन् मण्डले यत्परिरयपरि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy