SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञशिवृत्ति : ( मल० ) ॥ ६१ ॥ | माणं त्रीणि लक्षाण्यष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके ३१८२७९ इति, तदेभिस्त्रिभिः शतैरष्टषष्ट्यधिकैर्गुण्यते, जाता एकादश कोट्यः एकसप्ततिः शतसहस्राणि पविंशतिः सहस्राणि षट् शतानि द्विसप्तत्यधिकानि ११७१२६६७२, एतस्य षष्ट्या एकषष्ट्या गुणितया ३६६० भागो हियते, हृते च भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि ३२००१, शेषमुद्धरति त्रीणि सहस्राणि द्वादशोत्तराणि ३०१२, तेषां षष्टिभागानयनार्थमेकषष्ट्या भागो हियते, लब्धा एकोनपश्चाशत्षष्टिभागाः त्रयोविंशतिश्च एकस्य षष्टिभागस्य सत्का एकषष्टिभागा इति 'रसिंदियं तहेव'त्ति रात्रिन्दिवं - रात्रिदिवसपरिमाणमत्र तथैव-प्रागिव वक्तव्यं तच्चैवम्- 'तया णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगट्टिभागमुहुत्तेर्हि ऊणा दुवालसमुहुत्ते दिवसे हवइ चउहिं एगट्टिभागमुहुत्तेहिं अहिए' इति, सम्प्रति सर्वबाह्यान्मण्डलादर्वाक्तनेषु चतुरादिषु मण्डलेषु अतिदेशमाह - ' एवं खल्वि'त्यादि, 'एवं' उत्तेन प्रकारेण 'खलु' निश्चितमेतेनोपायेन शनैः शनैस्तत्तदभ्यन्त रानन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन् २ एकैकस्मिन् मण्डले मुहूर्त्तगतिमित्यत्र द्वितीया सप्तम्यर्थे मुहूर्त्तगतौ - मुहूर्त्तगतिपरिमाणे अष्टादश २ षष्टिभागान् योजनस्य व्यवहा रतः परिपूर्णान् निश्चयतः किञ्चिदूनान्निर्वेष्टयन् २- हापयन् २ इत्यर्थः, पूर्वपूर्वमण्डलापेक्षया अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशभियोजनै हर्निश्वात्, पुरुषच्छायामित्यत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थः - पुरुषच्छायायां दृष्टि| पथप्राप्त तारूपायां सातिरेकाणि पञ्चाशीतिः २ योजनानि अभिवर्द्धयन् २, इदं च सर्ववाह्यान्मण्डलादवतनानि कतिप | यानि प्रथमद्वितीयादिमण्डलान्यपेक्ष्य स्थूलत उक्तं, परमार्थतः पुनरेवं द्रष्टव्यं - इह येनैव क्रमेण सर्वाभ्यन्तरान्मंण्डला Jain Education International For Personal & Private Use Only २ प्राभृते ३ प्राभृतप्राभृतं ॥ ६१ ॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy