________________
मण्डलेषु चतुरशीति २ किञ्चिन्यूनानि योजनानि उपरितनेषु तु मण्डलेष्वधिकानि अधिकतराणि उक्तप्रकारेण निर्वेष्टयन २ तावदवसेयं यावत्सवबाह्यमण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया 'मित्यादि, तत्र यदा णमिति पूर्ववत् * सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरति तदा एकैकेन मुहूर्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि त्रीणि शतानि पञ्चदश
च षष्टिभागान् योजनस्य ५३०५१७ गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं त्रीणि योजनशतसहस्राणि अष्टा-| दश सहस्राणि त्रीणि शतानि पश्चदशोत्तराणि ३१८३१५, तत एतस्य प्रागुक्तयुक्तिवशात् षट्या भागो ह्रियते, ततो लब्धं यथोक्तमत्र मुहूर्तगतिपरिमाणमिति, अत्रैव दृष्टिपथप्राप्ततापरिमाणमाह-'तया ण'मित्यादि, तदा-सर्वबाह्यमण्डलचार-8 काले इहगतस्य मनुष्यस्य-जातावेकवचनमिहगतानां मनुष्याणां एकत्रिंशता योजनसहरष्टभिरेकत्रिंशदधिकैर्योजनशतैस्त्रिंशता च षष्टिभागैर्योजनस्य ३१८३१३० सूर्यः शीघ्रं चक्षुःस्पर्शमागच्छति, तदा ह्यस्मिन् मण्डले चारं चरति सूर्य द्वादशमुहूर्त्तप्रमाणो दिवसो भवति, दिवसस्य चार्डेन यावन्मानं क्षेत्रं व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्तानामढे षट् मुहूर्तास्ततो यदत्र मण्डले मुहूर्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पश्चदश च षष्टिभागा योजनस्य ५३०५४ तत् षड्भिर्गुण्यते, ततो यथोक्तमत्र दृष्टिपथप्राप्ततापरिमाणं भवति, अत्रापि दिवसरात्रिप्रमाणमाह-'तया ण'मित्यादि, सुगमम् । 'से पविसमाणे'इत्यादि, स सूर्यः सर्वबाह्यमण्डलादुक्तप्रकारेणाभ्यन्तरं मण्डलं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे 'बाहिरानंतरंति सर्वबाह्यान्मण्डलादनन्तरमर्वातनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति 'ता जया णमित्यादि तत्र यदा सर्वबाह्यानन्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org