________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
प्राभृते ३ प्राभूत
प्राभृत
ॐॐॐॐ
सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया व्यशीत्यधिकशततमे यदा दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा सा
ट्त्रिंशत् व्यशीत्यधिकेन शतेन गुण्यते, जातानि पञ्चषष्टिशतानि द्विपश्चाशदधिकानि ६५५२, ततः षष्टिभागानयनार्थमे- कषष्ट्या भागो हियते, लब्धं सप्तोत्तरं शतं षष्टिभागानां १०७, शेषाः पञ्चविंशतिरेकषष्टिभागा उद्धरन्ति २५, एतत् ध्रुवराशौ प्रक्षिप्यते, ततो जातमिदं-पञ्चाशीतिर्योजनानि एकादश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षट् एकपष्टिभागाः ८५१०इह पत्रिंशत एवमुत्पत्तिः-पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां हीनो भवति, प्रतिमुहूर्तेकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, तत उभयमीलने षट्त्रिंशद्भवति, ते चाष्टादश एकषष्टिभागाः कलया न्यूना लभ्यन्ते न परिपूर्णाः, परं व्यवहारतः पूर्व परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा न्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा एकषष्टिरेकषष्टिभागास्त्रुव्यन्ति, एतदपि व्यवहारत उच्यते, परमार्थतः पुनः किश्चिदधिकमपि त्रुव्यदवसेयं, ततोऽमी अष्टषष्टिरेकषष्टिभागा अपसार्यन्ते, तदपसारणे पश्चाशीतिर्योजनानि नव पष्टिभागा योजनस्य एकस्य षष्टिभा|गस्य सत्काः षष्टिरेकषष्टिभागाः ८५ इति जातं, ततः सर्वबाह्यमण्डलानन्तरातिनद्वितीयमण्डलगतात् दृष्टिपथ-12 प्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि योजनानामेकोनचत्वारिंशत्पष्टिभागा योजनस्य एकस्य च पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः ३१९१६.३० । इत्येवंरूपात शोध्यते, ततो यथोक्तं सर्वबाह्ये मण्डले दृष्टिपथप्राप्त| तापरिमाणं भवति, तच्चाने स्वयमेव सूत्रकृद्वक्ष्यति, तत एवं पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचि
dain Education International
For Personal & Private Use Only
wwww.jainelibrary.org