________________
मण्डल चार चरणकाले दिवसरात्री तथैव-प्रागिव वेदितव्ये, ते चैवम्- 'तया णं अट्ठारसमुहुत्ते दिवसे हवइ, चउहिं एगट्ठिभागमुहुतेहिं ऊणे दुवालसमुहुत्ता राई भवइ चउहिं एगट्टिभागमुहुत्तेहिं अहिया' इति, सम्मति चतुर्थादिषु मण्डलेष्वतिदेशमाह - ' एवं खल्वि'त्यादि, एवं-उक्तेन प्रकारेण खलु निश्चितमेवेन - अनन्तरोदितेनोपायेन शनैः शनैस्तत्तद्बहिर्मण्डलाभिमुखगमनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण सङ्क्रामन् सङ्क्रामन् एकैकस्मिन् मण्डले मुहूर्त्तगतिमित्यन्न सूत्रे द्वितीया सप्तम्यर्थे प्राकृतत्वाद्भवति प्राकृतलक्षणवशात् सप्तम्यर्थे द्वितीया, यथा - 'कस्तो रक्ति मुद्धे ! पाणियसद्धा सउणयाण' मित्यन [ कुतो रात्रौ मुग्धे ! पानीयश्रद्धा शकुनकानाम् ] ततोऽयमर्थः- मुहूर्त्तगतौ अष्टादश २ षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान्निश्चयतः किञ्चिदूनानभिवर्द्धयमानः २ 'पुरिसच्छाय' मिति पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात् प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थः - तस्यामेकैकस्मिन् मण्डले चतुरशीतिः २ 'सीयाई'ति शीतानि किञ्चि यूनानीत्यर्थः, योजनानि निर्वेष्टयन् २- हापयन्नित्यर्थः, इदं च स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं व्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तताविषये विषय हानौ ध्रुवं ततः सर्वाभ्यन्तरान्मण्डला तृतीयं यन्मण्डलं तत आरभ्य यस्मिन् यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तत्तन्मण्डलस या षटूत्रिंशद् गुण्यते, तद्यथा - सर्वाभ्यन्तरान्मण्डलात्तृतीये मण्डले एकेन चतुर्थे द्वाभ्यां पञ्चमे त्रिभिर्यावत् सर्वबाह्ये मण्डले व्यशीत्यधिकेन शतेन, गुणयित्वा च ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org