________________
सूर्यप्रज्ञप्तिवृत्तिः (मल०)
२ प्राभृते ३ प्राभृतप्राभृतं
॥५८॥
हीना पूर्वमण्डलगता दृष्टिपथप्राप्तता-तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता द्रष्टव्या, अथ व्यशीतियोजनानीत्यादिकस्य ध्रुवराशेः कथमुत्पत्तिः ?, उच्यते, इह सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य ४७२६३३१, एतच्च नवमुहूर्तगम्यं, तत एकस्मिन् मुहूर्त्तकषष्टिभागे किमागच्छतीति चिन्तायां नव मुहूर्ता एकषष्टया गुण्यन्ते, जातानि पञ्च शतान्येकोनपञ्चाशदधिकानि ५४९, तैर्भागो ह्रियते, लब्धा षडशीतिर्योजनानि पञ्च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य एकषष्टिवा छिन्नस्य सत्काश्चतुर्विंशतिर्भागाः ८६१.२४ पूर्वस्मात् २ च मण्डलादनन्तरानन्तरे मण्डले परिरयपरिमाणचिन्तायामष्टादश २ योजनानि व्यवहारतः परिपूर्णानि वर्द्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहूर्तगतिपरिमाणादनन्तरानन्तरे मण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रतिमुहूर्त्तमष्टादशाष्टादश षष्टिभागा योजनस्य प्रवर्द्धमाना द्रष्टव्याः, प्रतिमुहूर्ते कषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागाः, सर्वाभ्यन्तरानन्तरे च द्वितीये मण्डले सूर्यो दृष्टिपथप्राप्तो भवति नवभिमुहूर्तेकषष्टिभागेनोनावन्मानं क्षेत्रं व्याप्यते तावति स्थितस्ततो नव मुहूर्ता एकषष्ट्या गुण्यन्ते, गुणयित्वा च तेभ्य एक रूपमपनीयते, जातानि पञ्च शतानि अष्टाचत्वारिंशदधिकानि ५४८, तैरष्टादश गुण्यन्ते, जातान्यष्टानवतिः शतानि चतुःषष्टिसहितानि ९८६४, तेषां षष्टिभागानयनार्थमेकषष्ट्या भागो ह्रियते, लब्धमेकषष्ट्याधिक शतं षष्टिभागानां त्रिचत्वारिंशदेकषष्टिभागस्य सत्का एकषष्टिभागाः १४, तत्र विंशत्यधिकेन षष्टिभागशतेन द्वे योजने लब्धे पश्चादेकचत्वारिंशत्पष्टिभागा अवतिष्ठन्ते, एतच्च द्वे योजने एकचत्वारिंशत्रषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकर ष्टिभागा इत्येवं.
॥५८॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org