________________
*
*
*
*
*
गुण्यन्ते, गुणयित्वा च तत एक रूपमपनीयते, जातानि पञ्च शतान्यष्ट चत्वारिंशदधिकानि ५४८, ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि लक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति ३१५१०७, तत्पश्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते, ततो जात एककः सप्तको द्विकः षट्कः सप्तकोऽष्टकः षस्त्रिकः षदः १७२६७८६३६, ततो योजनानयनार्थमेकषष्टेः षष्ट्या गुणिताया यावान् राशिर्भवति तेन भागो हियते, एकषष्ट्यां च षष्ट्या गुणितायां षट्त्रिंशच्छ तानि | षष्ट्याधिकानि भवन्ति ३६६०, तैर्भागे हृते लब्धं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिक योजनानां, शेषमुद्धरति चतुस्त्रिंशच्छतानि षण्णवत्यधिकानि ३४९६, ततोऽस्माद्योजनानि नायान्तीति षष्टिभागानयनार्थ छेदराशिरेकषष्टियिते, तेन भागे हृते लब्धाः सप्तपञ्चाशत्पष्टिभागाः एकस्य च षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागा इति । 'तया णमित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव बक्तव्ये, ते चैवम्-'तया णं अट्ठारसमुहुत्ते दिवसे हवइ दोहिं एगहिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ दोहिं एगठिभागमुहुत्तेहिं अहिया इति, 'से निक्खममाणे'इत्यादि, द्वितीयस्मादपि मण्डलात् स सूर्यः प्रागुक्तप्रकारेण निष्क्रामन् नवस्य संवत्सरस्य सत्के द्वितीयेऽहोरात्रे 'अभितरतचंति सर्वाभ्यन्तरान्मण्डलात्तृतीयं मण्डलमुपसङ्क्रम्य चारं चरति, 'ता जया 'मित्यादि, तत्र यदा सर्वाभ्यन्तरान्मण्डलात्तृतीयं मण्डलमुपसङ्कम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि द्वे योजनशते द्विपञ्चाशे द्विपञ्चाशदधिके पञ्च च षष्टिभागान् योजनस्य ५२५२६ एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन्मण्डले परिरयपरि-४ मार्ण त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं पञ्चविंशत्यधिकं ३१५१२५, ततोऽस्य प्रागुक्तयुक्तिवशात् षट्या
*
*
*
dalin Education International
For Personal & Private Use Only
www.jainelibrary.org