SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञसिवृत्तिः ( मल० ) ॥ ५६ ॥ नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अभितरानंतरं 'ति सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं द्वितीयं मण्डलमुपसङ्गम्य चारं चरति 'ता जया ण'मित्यादि तत्र यदा णमिति वाक्यालङ्कारे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्क्रम्यं चारं चरति तदा पञ्च योजनसहस्राणि द्वे योजनशते एकपञ्चाशदधिके सप्तचत्वारिंशतं च षष्टिभागान् योजनस्य ५२५१४० एकैकेन मुहूर्त्तेन गच्छति, तथाहि-अस्मिन् सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले परिश्यपरिमाणं त्रीणि योजन लक्षाणि पञ्चदश सहस्राणि शतमेकं व्यवहारतः परिपूर्ण सप्तोत्तरं निश्चयमतेन तु किंचिन्यूनं ३१५१०७, ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भागो हियते, लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणं, अथवा पूर्वमण्डल परिरयपरिमाणादस्य मण्डलस्य परिश्यपरिमाणे व्यवहारतः परिपूर्णान्यष्टादश योजनानि वर्द्धन्ते, निश्चयतः किञ्चिदूनानि, अष्टादशानां च योजनानां षष्ट्या भागे हृते लब्धा अष्टादश षष्टिभागा योजनस्य, ते प्राक्तन मण्डलगत मुहूर्त्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तमन्त्र मण्डले मुहूर्त्तगतिपरिमाणमिति, अत्रापि दृष्टिपथप्राप्तता विषयं परिमाणमाह- 'तया णमित्यादि, तदा-सर्वाभ्यन्तरानन्तर द्वितीयमण्डलचारकाले इहगतस्य मनुष्यस्य- जातावेकवचनं इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैरे कोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशता षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्|रेकोनविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले मुहूर्त्तगतिपरिमाणं पञ्च योजनसहस्राणि द्वे शते एकपञ्चाशदधिके सप्तचत्वारिंशच्च षष्टिभागा योजनस्य ५२५१४० दिवसोऽष्टादश मुहूर्त्त प्रमाणो द्वाभ्यां मुहूर्त्ते कष|ष्टिभागाभ्यामूनस्तस्यार्द्ध नव मुहूर्त्ता एकेन एकषष्टिभागेन हीनाः, ततः सकलैकषष्टिभागकरणार्थे नव मुहूर्त्ता एकषष्ट्या Jain Education International For Personal & Private Use Only २ प्राभृते ३ प्राभृतप्राभृर्त ॥ ५६ ॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy