________________
ते. द्वयोश्चाहोरात्र
मण्डले परियमिति । अत्रासि
WISHESARSHIKSHASHISHES
समाप्यते, अहोरात्रश्च त्रिंशन्मुहर्तप्रमाणः, प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वाभ्यामहोरात्राभ्यां मण्डलं परिभ्रमणतः ला परिसमाप्यते, द्वयोश्चाहोरात्रप्रमाणयोर्मुहूर्ताः षष्टिर्भवन्ति, ततो मण्डलपरिरयस्य षष्ट्या भागं हारयेत् , भागलब्धं भवति,
तन्मुहूर्त्तगतिप्रमाणं, तत्र सर्वाभ्यन्तरे मण्डले परिरयप्रमाणं त्रीणि लक्षाणि पश्चदश सहस्राणि नवाशी(एकोननव)त्यधिकानि ३१५०८९ अस्य षष्ट्या भागे हते लब्धं यथोक्तं मुहर्तगतिपरिमाणमिति। अत्रास्मिन् सर्वाभ्यन्तरे मण्डले कियति क्षेत्रे व्यवस्थित उदयमानः सूर्य इहगतानां मनुष्याणां चक्षुर्गोचरमायातीतिप्रश्नावकाशमाशयाह-'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरमण्डल चारचरणकाले उदयमानः सूर्य इहगतस्य मनुष्यस्य, अत्र जातावेकवचनं, ततोऽयमर्थः-इहगतानां भरतक्षेत्रगतानां
मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैर्द्वाभ्यां त्रिषष्टाभ्यां-त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च षष्टिभागैलोजनस्य चक्षुःस्पर्श 'हवं ति' शीघ्रमागच्छति, काऽत्रोपपत्तिरिति चेत्, उच्यते, इह दिवसस्यार्द्धन यावन्मानं क्षेत्र व्याप्यते
तावति व्यवस्थित उदयमानः सूर्यः उपलभ्यते, सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणस्तेषामद्धे नव मुहूर्ताः, एकैकस्मिंश्च मुहर्ते सर्वाभ्यन्तरे मण्डले चारं चरन् पश्च पञ्च योजनसहस्राणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, तत एतावन्मुहूर्तगतिपरिमाणं नवभिर्मुहूतैर्गुण्यते, ततो भवति यथोक्तं दृष्टिपथप्राप्तताविषये परिमाणमिति, 'तया 'मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्-'तया णं उत्तमकठ्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवई' इति, ‘से निक्खममाणे'इत्यादि, ततः सर्वाभ्यन्तरान्मण्डलात्प्रागुक्तप्रकारेण निष्क्रामन् सूर्यो नवं संवत्सरमाददानो
PAULUSTRATSISAARISHISHIRISHO
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org