________________
सूर्यप्रज्ञतिवृत्तिः ( मल० )
॥ ५५ ॥
मुक्त्वा शेषे मध्य मे तापक्षेत्रे नवमुहूर्त्तगम्यप्रमाणे पश्च पश्च योजनसहस्राणि एकैकेन मुहूर्त्तेन गच्छति, ततः पश्चानां योजन सहस्राणां नवभिर्गुणने पञ्चचत्वारिंशद्योजन सहस्राणि भवन्ति ४५०००, सर्वाभ्यन्तरे तु मुहूर्त्तमात्रगम्ये तापक्षेत्रे चत्वारि योजनसहस्राणि ४००० गच्छति, सर्वमीलने एकषष्टिर्योजन सहस्राणि, न चतान्यन्यथोपपद्यन्ते, ततः 'तया ण' मि त्यादि, तदा सर्वाभ्यन्तरमण्डल चारकाले सर्वबाह्यमण्डल धारकाले चोक्तप्रकारेण षडपि पञ्चापि चत्वार्यपि योजनसह - स्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति, अत्रैवोपसंहारः - 'एगे एवमाहंस' एके चतुर्था वादिन एवं अनन्तरोक्तेन प्रकारेणाहुः । तदेवं परतीर्थिकप्रतिपत्ती रुपदर्श्य सम्प्रति स्वमतमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह- 'ता साइरेगाई' इत्यादि, ता इति पूर्ववत् सातिरेकाणि - समधिकानि पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति, इह क्वापि मण्डले कियताऽधिकेन पञ्च पञ्च योजन सहस्राणि गच्छति, ततः सर्वमण्डलप्राप्तिमपेक्ष्य सामान्यत उक्तं सातिरेकाणीति, एवमुक्ते भगवान् गौतमस्वामी स्वशिष्याणां स्पष्टावबोधनाय भूयः पृच्छति - 'तत्थे' त्यादि, तत्र - एवंविधायामनन्तरोदितायाँ वस्तुव्यवस्थायां को हेतुः - का उपपत्तिरिति वदेत्, भगवान् वर्द्धमानस्वामी आह- 'ता अयण्ण' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववरस्वयं परिपूर्ण परिभावनीयं, 'ता जया ण'मित्यादि, तत्र यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि द्वे द्वे योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य ५२५१३० एकैकेन मुहूर्त्तेन गच्छति कथमेतदवसीयते इति चेत्, उच्यते, इह द्वाभ्यां सूर्याभ्यामेकं मण्डल मेकेनाहोरात्रेण परि
Jain Education International
For Personal & Private Use Only
२ प्राभृते
३. प्राभृतप्राभृतं
॥ ५५ ॥
www.jainelibrary.org