________________
Jain Education
लसमुहन्ता राई भवति, एस णं दोघे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिचे संघच्छरे एस णं आदिश्चसंवच्छरस्स पज्जवसाणे ( सूत्रं २३ ) बितियं पाहुडं समत्तं ॥
'ता केवतियं ते खित्तं सूरिए' इत्यादि, ता इति पूर्ववत्, कियन्मात्रं क्षेत्रं भगवन् ! ते त्वया सूर्य एकैकेन मुहूर्त्तेन गच्छति, गच्छन्नाख्यात इति वदेत् ?, एवमुक्ते सति भगवान् एतद्विषय परतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव परप्रतिपत्तीरुपदर्शयति- 'तस्थ' इत्यादि, तत्र - प्रतिमुहूर्त्तगतिपरिमाणचिन्तायां खल्विमाश्चतस्रः प्रतिपत्तयः प्रज्ञताः, तद्यथा-तत्र तेषां चतुर्णां वादिनां मध्ये एके एवमाहुः षट् २ योजन सहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति, अत्रैवोपसंहारः 'एगे एवमाहंसु' १, एवमग्रेतनान्युपसंहारवाक्यानि भावनीयानि, एके पुनर्द्वितीया एवमाहुः - पञ्च २ योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति २, एके पुनस्तृतीया एवमाहुः चत्वारि २ योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति, ३, अपरे पुनश्चतुर्था एवमाहुः - पडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति, तदेवं चतस्रोऽपि प्रतिपत्तीः सङ्क्षेपत उपदर्श्य सम्प्रत्येतासां यथाक्रमं भावनिकामाह - 'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः - षट् षटू योजन सहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति ते एवमाहुः यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्तः - परम प्रकर्ष प्राप्तोऽष्टादशमुहूर्त्ता दिवसो भवति सर्वजघन्या च द्वादशमुहूर्त्ता रात्रिः, तस्मिंश्च दिवसे तापक्षेत्रं प्रज्ञप्तं एकं योजनशतसहस्रमष्टौ च योजनसहस्राणि, तथाहि तस्मिन्नपि मण्डले उदयमानः सूर्यो दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्नोति तावति व्यवस्थितश्चक्षुर्गोचरमायाति तत एतावत्किल पुरतस्तापक्षेत्रं, यावच्च
For Personal & Private Use Only
www.jainelibrary.org