________________
सूर्यप्रज्ञप्तिवृत्तिः (मल.)
२प्राभृते ३ प्राभृतप्राभृतं
॥ ५३॥
SAHASRANAS60564
पुरतस्तापक्षेत्रं तावत्पश्चादपि, यत उदयमान इवास्तमयमानोऽपि सूर्यो दिवसस्यार्द्धन यावन्मानं क्षेत्रं व्याप्नोति तावति व्यवस्थितश्चक्षुषोपलभ्यते, एतच्च प्रतिप्राणि सुप्रसिद्धं, सर्वाभ्यन्तरे च मण्डले दिवसस्यार्द्ध नव मुहूर्तास्ततोऽष्टादशभिर्मुहूतैर्यावन्मानं क्षेत्रं गम्यं तावत्प्रमाणं तापक्षेत्रं, एकैकेन मुहूर्तेन षट् षट् योजनसहस्राणि गम्यन्ते, ततः षण्णां योजनसहस्राणामष्टादशभिर्गुणने भवत्येक योजनशतसहस्रमष्टौ योजनसहस्राणीति, एवमुत्तरत्रापि तत्तन्मण्डलगतदिवसपरिमाणं प्रतिमुहर्तगतिपरिमाणं च परिभाव्य तापक्षेत्रपरिमाणभावना भावनीया, यदा च सर्वबाह्यं मण्डलमुपसङ्क्रम्य चार चरति तदा उत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्ता रात्रिर्भवति सर्वजघन्यश्च द्वादशमुहूर्तो दिवसः, तस्मिंश्च दिवसे तापक्षेत्रपरिमाणं द्विसप्ततिर्योजनसहस्राणि ७२०००, तदा हि तापक्षेत्रं द्वादशमुहूर्तगम्यप्रमाणं, अत्रार्थे च भावना प्रागुक्तानुसारेण स्वयं भावनीया, मुहूर्तेन च षट् षट् योजनसहस्राणि गच्छति, ततः षण्णां योजनसहस्राणां द्वादशभिर्गुणने भवन्ति द्वासप्ततिरेव योजनसहस्राणीति, इमामेवोपपत्तिं लेशत आह-तेसि 'मित्यादि, तेषां हि तीर्थान्तरीयाणां मतेन सूर्यः षट् षड् योजनसहस्राण्येकैकेन मुहूर्तेन गच्छति ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तमेव तापक्षेत्रपरिमाणं भवतीति, तथा 'तत्थे'त्यादि, तत्र-तेषां वादिनां मध्ये ये ते एवमाह:-पञ्च पश्च योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तन गच्छति त एवमाहुः-यदा सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्कम्य चारं चरति 'तहेव दिवसराइप्पमाण'मिति अत्र प्रस्तावे दिवसरात्रि|प्रमाणं तथैव-प्रागिव द्रष्टव्यं, 'तया णं उत्तमककृपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे हवइ, जहन्निया दुवालसमुहुत्ता राई इति, 'तस्सि च ण'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं-तापक्षेत्रपरिमाणं प्रज्ञप्तं
५३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org