________________
रात्रिपरिमाणव्याघातप्रसङ्गः, 'तेसि णमयं दोसे'त्ति तेषामयं दोषः, 'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः-मण्डलान्मण्डलं सङ्क्रामन् सूर्योऽधिकृतमण्डलं कर्णकलं निर्वेष्टयति-मुञ्चति तेषामयं विशेषो-गुणः, तमेव गुणमाह-'जेणेस्यादि, येन-यावता कालेनापान्तरालेन मण्डलान्मण्डलं सङ्क्रामन् सूर्यः कर्णकलमधिकृतं मण्डलं निर्वेष्टयति, एतावतीमद्धां पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपि गच्छति, इयमत्र भावना-अधिकृतं मण्डलं किल कर्णकलं निर्वेष्टितं अतोऽपान्त|रालगमनकालोऽधिकृतमण्डलसत्क एवाहोरात्रेऽन्तर्भूतस्तथा च सति द्वितीये मण्डले सङ्क्रान्तः सन् तद्गतकालस्य मनागप्यहीनत्वाद् यावता कालेनापान्तरालं गम्यते तावता कालेन पुरतो गच्छति, ततः किमित्याह-पुरतो गच्छन्मण्डलकालं न परिभवति यावता कालेन प्रसिद्धेन तन्मण्डलं परिसमाप्यते तावता कालेन तन्मण्डलं परिपूर्ण समापयति, न पुनर्मनागपि मण्डलकालपरिहाणिस्ततो न कश्चित् सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, एष तेषाः मेवंवादिनां विशेषो-गुणः, तत इदमेव मतं समीचीनं नेतरदित्यावेदयन्नाह-तत्थे'त्यादि तत्र ये ते वादिन एवमाहुमण्डलान्मण्डलं सङ्ग्रामन् सूर्योऽधिकृतं मण्डलं कर्णकलं निर्वेष्टयति, एतेन नयेन-अभिप्रायेणास्मन्मतेऽपि मण्डलान्मण्डलान्तरसङ्क्रमणं ज्ञातव्यं, न चैवमितरेण नयेन, तत्र दोषस्योक्तत्वात् ॥ इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां | द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥
dain Educ
a
tional
For Personal & Private Use Only
www.jainelibrary.org