SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः (मल०) २ प्राभृते२प्राभृतप्राभृतं ॥४९॥ SUHAGRॐॐ न्तरालं तत्र घातो-गमनं, एतच्च प्रागेवोक्तं, तेन संक्रामति, किमुक्तं भवति ?-विवक्षिते मण्डले सूर्येणापूरिते सति तदन्तरमपान्तरालगमनेन द्वितीयं मण्डलं सङ्कामति, सङ्क्रम्य च तस्मिन्मण्डले चारं चरति, अत्रोपसंहारः 'एगे एवमाहंसु' |१, एके पुनरेवमाहुः 'ता' इति पूर्ववत् मण्डलान्मण्डलं सामन-सङ्क्रमितुमिच्छन् सूर्यस्तदधिकृतं मण्डलं प्रथमक्षणादू प्रमारभ्य कर्णकलं निर्वेष्टयति-मुञ्चति, इयमत्र भावना-भारत ऐरावतो वा सूर्यः स्वस्वस्थाने उद्गतः सन् अपरमण्डलगतं कर्ण प्रथमकोटिभागरूपं लक्ष्यीकृत्य शनैः शनैरधिकृतं मण्डलं तया कयाचनापि कलया मुञ्चन् चारं चरति येन तस्मिन्नहोरात्रेऽतिक्रान्ते सति अपरानन्तरमण्डलस्यारम्भे वर्तते इति, कर्णकलमिति च क्रियाविशेषणं द्रष्टव्यं, तच्चैवं भावनीयं-कर्ण-अपरमण्डलगतप्रथमकोटिभागरूपं लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणादूर्ध्व क्षणे क्षणे कलयाऽतिक्रान्तं | यथा भवति तथा निर्वेष्टयतीति, तदेवं प्रतिपत्तिद्वयमुपन्यस्य यद्वस्तुतत्त्वं तदुपदर्शयति-तत्थे'त्यादि, तत्र-तेषां द्वयानां मध्ये ये एवमाहुः-मण्डलान्मण्डलं सङ्क्रामन् भेदघातेन सङ्कामति तेषामयं-अनन्तरमुच्यमानो दोषः, तमेवाह-येन-यावता कालेन अन्तरेण-अपान्तरालेन मण्डलान्मण्डल सङ्कामन् सूर्यों भेदघातेन सङ्कामतीत्युच्यते, एतावतीमद्धां पुरतो-द्वितीये मण्डले न गच्छति, किमुक्तं भवति?-मण्डलान्मण्डलं सामन् यावता कालेनापान्तरालं गच्छति तावत्कालाऽनन्तरं परिभ्रमितुमिष्टे, द्वितीयमण्डलसत्काहोरात्रमध्यात त्रुव्यति, ततो द्वितीये मण्डले परिभ्रमन् पर्यन्ते तावन्तं कालं न परिभ्रमेत् तद्गताहोरात्रस्य परिपूर्णीभूतत्वात् , एवमपि को दोष इत्याह-पुरतो द्वितीयमण्डलपर्यन्तेऽगच्छन् मण्डलकालं परिभवति, यावता कालेन मण्डलं परिपूर्ण भ्रम्यते तस्य हानिरुपजायते, तथा च सति सकलजगद्विदितप्रतिनियतदिवस ॥ ४९ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy