________________
त्यर्थः, भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया प्रत्यञ्चया-दवरिकयेत्यर्थः, तन्मण्डलं चतुर्भािगैविभज्य दक्षिणपौरस्त्य उत्तरपश्चिमे च चतुर्भागमण्डले-मण्डलचतुर्भागे एकत्रिंशद्भागप्रमाणे, एतावति किल चतुरशीत्यधिकमपि मण्डलशतं सूर्यस्योदये प्राप्यते इति 'चउवीसेणं सएणं छित्ता चउन्भागमंडलंसी युक्तं, अस्याः-प्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजनशतान्युत्प्लुत्य-बुख्या गत्वा अत्रान्तरे प्रातद्वौं सूर्यावृत्तिष्ठतः-उद्गच्छतः, दक्षिणपौरस्त्यमण्डलचतुर्भागे भारतः सूर्य उद्गच्छति अपरोत्तरस्मिन् मण्डलचतुर्भागे ऐरावतः सूर्यः, तौ चैवमुद्गतौ भरतैरावतसूर्यों यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यकुरुतः, किमुक्तं भवति ?भारतः सूर्यो दक्षिणपौरस्त्यमण्डल चतुर्भागे उद्गतः सन् तिर्यक् परिभ्रमति तिर्यक् परिभ्रमन् मेरोदक्षिणभागं प्रकाशयति, ऐरावतः पुनः सूर्योऽपरोत्तरदिग्विभागे उद्गच्छति, स चोद्गतः सन् तिर्यक् परिधमन् मेरोरुत्तरभागं प्रकाशयतीति, इत्थं च भारतैरावतसूर्यो यदा मेरोदक्षिणोत्तरौ जम्बूद्वीपभागी तिर्यकुरुतः तदैव सौ पूर्वपश्चिमौ जम्बूद्वीपभागी रात्रौ कुरुतः, एकोऽपि सूर्यस्तदा पूर्वभागं पश्चिमभागं वा न प्रकाशयतीत्यर्थः, दक्षिणोत्तरौ च भागो तिर्यकृत्वा ताविमौ
पूर्वपश्चिमौ जम्बूद्वीपभागौ तिर्यकुरुतः, इयमत्र भावना-ऐरावतः सूर्यो मेरोरुत्तरभागे तिर्यक् परिभ्रम्य तदनन्तरं मेरोरेव है पूर्वस्यां दिशि तिर्यक् परिभ्रमति, भारतः सूर्यो मेरोदक्षिणतस्तिर्यक् परिभ्रम्य तदनन्तरं मेरोः पश्चिमे भागे तिर्यक्
परिभ्रमतीति, इत्थं च यदा ऐरावतभारतौ सूर्यो यथाक्रम पूर्वपश्चिमभागौ तिर्यक् कुरुतस्तदैव दक्षिणोत्तरौ जम्बूद्वीप|भागौ रात्रौ कुरुतः, एकोऽपि सूर्यस्तदा दक्षिणभागं उत्तरभागं वान प्रकाशयतीति भावः, तत इत्थं यथाक्रममैरावत
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org