SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिवृत्तिः (मल०) २ प्राभृते १प्राभृतप्राभृतं ॥४७॥ दिग्भावित तिर्यकुर्वन् तदैवोत्तरमद्धलारत्ययः, उत्तर चार्द्धलोकं तिकशाप पारस्त्यालोकान्तादू मनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति-अधोभागवर्तिनं लोकं प्रकाशयन् प्रतिनिवर्तत इति भावः, अधः प्रत्यागत्य चावरभुवः-अधःपृथिव्या अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्व प्रातः सूर्योऽप्काये पूर्वसमुद्रे उत्तिष्ठतिउद्गच्छति, एवं सकलकालमपि, अत्रैवोपसंहारः 'एगे एवमाहंसु' ७,एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्वं प्रथमतो |बहूनि योजनानि ततः क्रमेण बहूनि योजनशतानि तदनन्तरं क्रमेण बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुद्ध्या गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्यो देवतारूपः सदावस्थायी उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निम दक्षिणार्द्धलोक-दक्षिण दिग्भाविनमर्द्धलोकं, दक्षिणं लोकस्यार्द्धमित्यर्थः, तिर्यकरोति-तिर्यक् परिभ्रमन् दक्षिणलोका? प्रकाशयती| त्यर्थः, दक्षिणं चार्द्धलोक तिर्यकुर्वन् तदैवोत्तरमर्द्धलोकं रात्रौ करोति, ततः स सूर्यः क्रमेणेममर्द्धलोकमुत्तरं तिर्यकरोति, तत्रापि तिर्यक् परिभ्रममन् उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थः, उत्तरं चार्द्धलोकं तिर्यकपरिभ्रमणेन प्रकाशयन् तदैव दक्षिणमर्द्धलोकं रात्रौ करोति, ततः स सूर्य इमो दक्षिणोत्तरार्द्धलोको तिर्यकृत्वा भूयोऽपि पौरस्त्याल्लोकान्तादूर्व प्रथमतो |बहूनि योजनानि गत्वा ततः क्रमेण बहूनि योजनशतानि तदनन्तरं बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुद्ध्या गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति-उद्गच्छति, एवं सकलकालं, अत्रोपसंहारमाह-'एगे एवमाहंसु' तदेवं परप्रतिपत्तीरुपदर्य स्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता'इत्यादि, ता इति पूर्ववत् , जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विशत्यधिकेन शतेन छित्त्वा, चतुर्विंशत्यधिकशतसङ्ख्यान भागान् मण्डलं परिकल्प्ये 55ऊन ॥४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy