SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ RAHASRASHRSHES दूर्व प्रातः सूर्यो देवतारूपस्तथाविधपुराणप्रसिद्धः पृथिवीकाये-पृथिवीकायमध्ये उदयभूधरशिरसि उत्तिष्ठति-उत्पद्यते, स चोत्पन्नः सन्निमं मनुष्यलोक तिर्यकरोति, तिर्यक् परिभ्रमन्निमं मनुष्यलोकं प्रकाशयतीत्यर्थः, तिर्यकृत्वा पश्चिमे 2 लोकान्ते सायं-सान्ध्ये समये सूर्यः पृथिवीकाये-अस्तमयभूधरशिरसि विध्वंसते-विध्वंसमुपयाति, एवं प्रतिदिवसं सकलकालं जगत्स्थितिः परिभावनीया, अत्रोपसंहारः 'एगे एवमाहंसु' ४, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्व प्रातः सूर्यो देवतारूपः सदावस्थायी पृथ्वीकाये-उदयभूधरशिरसि उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निमं प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यकरोति, तिर्यक्कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये पृथिवीकार्य-अस्तमयभूधरमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति-अधोभागवर्तिनं लोकं प्रकाशयन् प्रतिनिवर्त्तते, ततः पुनरप्यवरभुवः-अधोभुवः पृथिव्या अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्व प्रातः सूर्यः पृथिवीकाये-उदयभूधरशिरसि उत्तिष्ठति, एतेऽपि भूगोलवादिनः परं पूर्वे आकाशे उत्तिष्ठतीति प्रतिपन्नाः एते तु पर्वतशिरसीति शेषः, अत्रैवोपसंहारः 'एगे एवमासु'५, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्घ प्रातः सूर्योऽष्काये-पूर्वसमुद्रे उत्तिष्ठति-उत्पद्यते, स चोत्पन्नः सन्निम-प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यकरोति, तिर्यकृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽप्काये-पश्चिमसमुद्रे विध्वंसमुपगच्छति, एवं सर्वदापि, अत्रोपसंहारः 'एगे एवमासु ६, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्व प्रातः सूर्यः सदावस्थायी पुराणशास्त्रप्रसिद्धोऽकाये-पूर्वसमुद्रे उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निम तिर्यग्लोक तिर्यकरोति, तिर्यक् परिभ्रमन्निमं तिर्यग्लोकं प्रकाशयतीत्यर्थः, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽप्कायं-पश्चिमसमुद्र ASUSAKAISHUSHISAIRAUSKAISES dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy