________________
सूर्यप्रज्ञतिवृत्तिः (मल.)
मरीचिसङ्घात उपजातः सन् णमिति वाक्यालङ्कारे इम-प्रत्यक्षत उपलभ्यमानं लोक-तिर्यग्लोक तिर्यकरोति, किमुक्त
|२ प्राभृते भवति -तिर्यक् परिभ्रमन्निम तिर्यग्लोकं प्रकाशयतीति, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये विध्वंसते, १प्राभृतअत्रोपसंहारः-'एगे एवमाहंसु' तथा जगत्स्वाभाव्यात् स मरीचिसङ्घात आकाशे विध्वंसते-विध्वंसमुपयाति एवं सकल- प्राभूत कालमपि, अत्रैवोपसंहारः, 'एगे एवमासु' १, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्व प्रातः सूर्यो लोकप्रसिद्धो देवतारूपो भास्करस्तथाजगत्स्वाभाव्यादाकाशे उत्पद्यते, स चोत्पन्नः सन्निम तिर्यग्लोकं तिर्यकरोति-तिर्यक् परिभ्रमन्निम लोकं प्रकाशयतीत्यर्थः, तिर्यक् च कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये आकाशे विध्वंसते अत्रोपसंहारः 'एगे एवमाहंसु'२, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्व प्रातः सूर्यो देवतारूपः सदावस्थायी तथाविधपुराणशास्त्रप्रसिद्ध आकाशे उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निमं प्रत्यक्षत उपलभ्यमानं मनुष्यलोकं तिर्यक् करोति तिर्यक् च कृत्वा पश्चिमलोकान्ते सायं-सन्ध्यासमये अध आकाशमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छति-अधोभागेन प्रत्यागच्छति, अधोलोकं प्रकाशयन् प्रतिनिवर्त्तते इत्यर्थः, तन्मतेन हि भूरियं गोलाकारा लोकोऽपि च गोलाकारतया व्यवस्थितः, इदं च मतं सम्प्रत्यपि तीर्थान्तरीयेषु विजम्भते, ततस्तद्गतं पुराणशास्त्रादेतत्सम्यगवसेयं, अस्य त्रयो भेदाः, एके एव-18 माहुः-प्रातः सूर्य आकाशे उद्गच्छति, अपरे आहुः-पर्वतशिरसि, अन्ये आहुः-समुद्रे इति, तत्र प्रथमानामिदं मतमुप- ॥४६॥ न्यस्तं, अधः प्रत्यागत्य च पुनरप्यवरभुव:-अधोभुवः पृथिव्या अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्वमाकाशे प्रातः सूर्य उद्गच्छति, एवं सर्वदापि द्रष्टव्यं, अत्रोपसंहारः 'एगे एवमाहंमु' ३, एके पुनरेवमाहुः-पौरस्त्याल्लोकान्ता
+96
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org