SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञतिवृत्तिः ( मल० ॥ ४८ ॥ भारतसूर्यौ पूर्वपश्चिमभागौ तिर्यक् कृत्वा यो भारतः सूर्यः स उत्तरपश्चिममण्डलचतुर्भागे उदयमासादयति, यश्चैरावतः स दक्षिणपौरस्त्ये मण्डलचतुर्भागे इति एतदेवोपदर्शयन्नुपसंहारमाह - 'ते णं' इत्यादि, तौ भारतैरावतौ सूर्यौ प्रथमतो यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ ततो यथायोगं पूर्वपश्चिमौ जम्बूद्वीपभागौ, भारतः पश्चिमभागमैरावतः पूर्वभागमित्यर्थः, तिर्यक् कृत्वा जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्त्वा भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया च जीवया प्रत्यञ्चया दवरिकया इत्यर्थः, चतुर्भिर्विभज्य यथायोगं दक्षिणपौरस्त्ये उत्तरपश्चिमे वा मण्डलचतुर्भागे अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजनशतान्युत्प्लुत्य अत्रास्मिन्नवकाशे प्रातद्व सूर्यावाकाशे उत्तिष्ठतः - उद्गच्छतः, य उत्तरभागं पूर्वस्मिन्नहोरात्रे प्रकाशितवान् स दक्षिणपौरस्त्ये मण्डलचतुर्भागे उद्गच्छति, यस्तु दक्षिणं भागं प्रकाशयति स्म स उत्तरपश्चिमे मण्डलचतुर्भागे, एवं सकलकालं जगत्स्थितिः परिभावनीया । इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां द्वितीयस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं समाप्तम् ॥ तदेवमुक्तं द्वितीयस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो यथा ' मण्डलान्तरे सङ्क्रमणं वक्तव्य' मिति ततस्तद्विषयं प्रश्नसूत्रमाहता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहिताति वदेज्जा १, तत्थ खलु इमातो दुवे Jain Education International For Personal & Private Use Only २ प्राभृतें १ प्राभृत प्राभूतं ॥ ४८ ॥ www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy