SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ শ पढमित्थ इंदभूई बीए पुण होइ अग्गिभूइत्ति । तइए य वाउभूई तओ वियत्ते सुहम्मे य ॥२०॥ मंडिअ मोरियपुत्ते अकंपिए चेव अयलभाया य । मेअज्जे य पहासे गणहरा हुंति वीरस्स ॥ २१ ॥ गाथाद्वयमेतदपि निगदसिद्धं ॥ एते च गणभृतः सर्वेऽपि तथाकल्पत्वाद्भगवदुपदिष्टं 'उप्पन्ने इवे' त्यादि मातृकापदत्रयमधिगम्य सूत्रतः सकलमपि प्रवचनं दृब्धवन्तः तच्च प्रवचनं सकलसत्त्वानामुपकारकं, विशेषत इदानीन्तनजनानामतः तदेव सम्प्रत्यभिष्टुवन्नाह - निव्वुइपहसासणयं जयइ सया सव्वभावदेसणयं । कुसमयमयनासणयं जिणिंदवरवीरसासणयं ॥ २२ ॥ निर्वृतेः- मोक्षस्य पन्थाः - सम्यग्दर्शनज्ञानचारित्राणि, तथा चाह भगवानुमाखातिवाचकः - 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति, निर्वृतिपथः 'ऋक्पूः पश्यपोऽदिति समासान्तोत् प्रत्ययः, यद्यपि निर्वृतिपथशब्देन ज्ञानादित्रयमभिधीयते तथाऽपीह सम्यग्दर्शनचारित्रयोरेव परिग्रहो, ज्ञानस्योत्तरत्र विशेषेणाभिधानात्, निर्वृतिपथस्य शासनं शिष्यतेऽनेनेति शासनं - प्रतिपादकं निर्वृतिपथशासनं, ततः 'कचे 'ति प्राकृतलक्षणात् स्वार्थे कप्रत्ययः, निर्वृतिपथशासनकम्, एवमन्यत्रापि यथायोगं कप्रत्ययभावना कार्या, 'सदा' सर्वकालं 'जयति' | सर्वाण्यपि प्रवचनानि प्रभावातिशयेनातिक्रम्यातिशायि वर्त्तते, कथंभूतं सदित्याह - 'सर्वभावदेशनकं' सर्वे च ते Jain Educternational For Personal & Private Use Only गणधरा वलिः शासनस्तुति व. गा. २०-२२ ५ १० १२ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy