________________
श्रीमलय- भावाश्च सर्वभावाः तेषां देशन-प्ररूपकं सर्वभावदेशनं, ततः खार्थिकः कप्रत्ययः, सर्वभावदेशनकम् , अत | गिरीया
एव 'कुसमयमदनाशनकं' कुत्सितः समयाः-परतीर्थिकप्रवचनानि तेषां मदः-अवलेपस्तस्य नाशनं ततः नन्दीवृत्तिः
खार्थिककप्रत्यये कुसमयमदनाशनकं, कुसमयमदनाशनं च कुसमयानां यथोक्तसर्वभावदेशकत्वायोगात्, इत्थं॥४८॥ भूतं जिनेन्द्रवरवीरशासनकं जयति ॥ सम्प्रति यैरिदमविच्छेदेन स्थविरैः क्रमेणैदंयुगीनजन्तूनामुपकारार्थमानीतं है तेषामावलिकामभिघित्सुराह
सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिजंभवं तहा ॥ २३ ॥
इह स्थविरावलिका सुधर्मखामिनः प्रवृत्ता, शेषगणधराणां सन्तानप्रवृत्तेरभावात् , उक्तं च-"तित्थं च सुहम्माओ निरवच्चा गणहरा सेसा" ततस्तमेवादी कृत्वा तामभिधत्ते-'सुधम्म' गर्मखामिनं पञ्चमगणधरं 'अग्गिवेसाणमिति अग्निवेशस्यापत्यं वृद्धं आग्निवेश्यो 'गर्गादेयंजिति यञ् प्रत्ययः तस्याप्यपत्यमाग्निवेश्यायनः तं आग्निवेश्यायनं, वन्दे इति क्रियाभिसम्बन्धः, तथा तस्य शिष्यं जम्बूनामानं, चः समुच्चये, कश्यपस्थापत्यं काश्यपः 'विदादेवृद्ध' इत्यप्रत्ययः, तं काश्यपगोत्रं वन्दे, तस्यापि जम्बूखामिनः शिष्यं प्रभवनामानं कात्यायनं कतस्यापत्यं
SEARC5615
सुधर्मादिस्थविरावलिकथनं. गा. २३
॥४८॥
१ तीर्थ च सुधर्मणो निरपल्ला गणधराः शेषाः।
Jain Education International
For Personal & Private Use Only
wwwjainelibrary.org