________________
AUGARROBOROSCOSA
कात्यः 'गर्गादेर्यनिति यञ् प्रत्ययः, तस्याप्यपत्यं कात्यायनस्तं कात्यायनं-कात्यायनगोत्रं वन्दे, तख शिष्यं शय्यम्भवं वात्स्य-वत्सस्थापत्यं वात्स्यो 'गर्गादेर्यजिति यञ् प्रत्ययस्तं वन्दे तथेति समुच्चये ॥ __ जसभदं तुंगियं वंदे, संभूयं चेव माढरं । भदबाहुं च पाइन्नं, थूलभदं च गोयमं ॥ २४ ॥ है। शय्यम्भवशिष्यं यशोभद्रं 'तुङ्गिक' तुङ्गिकगणं व्याघापत्यगोत्रं वन्दे, तस्य च द्वौ प्रधानशिष्यावभूताम् , तद्यथा
सम्भूतविजयो माढरगोत्रो भद्रबाहुश्च प्राचीनगोत्रः, तौ द्वावपि नमस्कुरुते-'सम्भूतं चेव माढरं । भहबाहुं च । पाइन्न' मिति, तत्र सम्भूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत् , तमाह-स्थूलभद्रं, चः समुच्चये, गौतमं । गौतमस्थापत्यं गौतमः 'ऋषिवृष्ण्यन्धककुरुभ्य' इति अण् प्रत्ययः तं, वन्दे इति क्रियायोगः, स्थूलभद्रस्यापि द्वौ
प्रधानशिष्यौ बभूवतुः, तद्यथा-एलापत्यगोत्रो महागिरिवशिष्ठगोत्रः सुहस्ती । तौ द्वावपि प्रणिणंसुराहPI एलावच्चसगोत्तं वंदामि महागिरिं सुहत्थिं च। तत्तो कोसिअगोत्तं बहुलस्स सरिव्वयं वन्दे ॥२५॥
इह यः खापत्यसन्तानस्य खव्यपदेशकारणमाद्यः प्रकाशकः पुरुषः तदपत्यसन्तानो गोत्रं, इलापतेरपत्वं एलापत्यः, 'पत्युत्तरपदयमादित्यदित्यदितेर्योऽणपवादे वा खे' इति यञ् प्रत्ययः, एलापत्येन सह गोत्रेण वर्त्तते यः स एलापत्यसगोत्रः तं वन्दे महागिरि, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र सुहस्तिन आरभ्य सुस्थितसुप्रतिबुद्धादिक्रमणावलिका विनिर्गता सा यथा दशाश्रुतस्कन्धे तथैव द्रष्टव्या, न च तयेहाधिकारः, तस्सामावलिकायां प्रस्तुताध्ययनकारकस्य
Jain Education International
For Personal & Private Use Only
Raw.jainelibrary.org