________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ४९ ॥
देववाचकस्याभावात् तत इह महागिर्यावलिकयाऽधिकारः, तत्र महागिरेद्वौ प्रधानशिष्यावभूताम्, तद्यथा - बहुलो बलिस्सहश्च, तौ च द्वावपि यमलभ्रातरौ कौशिकगोत्रौ च तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत्, ततस्तमेव निनंसुराह - 'ततो' महागिरेरनन्तरं कौशिकगोत्रं बहुलस्य 'सदृशवयसं' समानवयसं द्वयोरपि यमलभ्रातृत्वात्, 'वन्दे' नमस्करोमीति ।
हारियगुत्तं साइं च वंदिमो हारियं च सामज्जं । वंदे कोसियगोत्तं संडिलं अज्जजीयधरं ॥ २६ ॥ बलिस्सहस्यापि शिष्यं हारीतगोत्रं 'खातिं ' खातिनामानं चः समुच्चये वन्दे, तथा खातिशिष्यं ' हारीतं' हारीतगोत्रं चः समुच्चये स च भिन्नक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामार्ये वन्दे, तथा श्यामार्यशिष्यं कौशिक गोत्रं 'शाण्डिल्यं' शाण्डिल्यनामानं वन्दे, किम्भूतमित्याह - 'आर्यजीतधरं' आरात् - सर्वहेयधर्मेभ्योऽर्वाक् यातं आर्य 'जीत' मिति सूत्रमुच्यते, जीतं स्थितिः कल्पो मर्यादा व्यवस्थेति हि पर्यायाः, मर्यादाकारणं च सूत्रमुच्यते, तथा 'धृड् धारणे' त्रियते धारयतीति धरः 'लिहादिभ्यः' इत्यच् प्रत्ययः आर्यजीतस्य धर आर्यजीतधरः तम्, अन्ये तु व्याचक्षतेशाण्डिलस्यापि शिष्य आर्यगोत्रो जीतधरनामा सूरिरासीत् तं वन्दे इति ॥
Jain Education tional
तिसमुद्दखायकित्तिं दीवसमुद्देसु गहियपेयालं । वंदे अज्जसमुदं अक्खुभियसमुद्दगंभीरं ॥ २७ ॥ शाण्डिलशिष्यमार्यसमुद्रनामानं वन्दे, कथंभूतमित्याह - 'त्रिसमुद्रख्यात कीर्ति' पूर्वदक्षिणापरदिग्विभागव्यवस्थि
For Personal & Private Use Only
स्थविरावलिंका. गा.
२४-२७
१५
२०
॥ ४९ ॥
२६
ainelibrary.org