________________
५
तत्वात् पूर्वापरदक्षिणास्त्रयः समुद्रास्त्रिसमुद्रम् , उत्तरतस्तु हिमवान् वैतात्यो वा, त्रिसमुद्रे ख्याता कीर्तिर्यस्यासी है त्रिसमुद्रख्यातकीर्तिस्तं, तथा 'द्वीपसमुद्रेषु' द्वीपेषु समुद्रेषु च गृहीतं पेयालं-प्रमाणं येन स गृहीतपेयालस्तम् ,
अतिशयेन द्वीपसागरप्रज्ञप्तिविज्ञायकमिति भावः, तथा अक्षुभितसमुद्रवद्गम्भीरम् ॥__ भणगं करगं झरगं पभावगं णाणदंसणगुणाणं । वंदामि अजमंगुं सुयसागरपारगं धीरं ॥ २८॥ ___ आर्यसमुद्रस्थापि शिष्यमार्यमणुं वन्दे,किंभूतमित्याह-'भणकंकालिकादिसूत्रार्थमनवरतं भणति-प्रतिपादयतीति भणः भण एव भणकः कश्चेति प्राकृतलक्षणसूत्रात् खार्थे कः प्रत्ययः तं, तथा 'कारकं' कालिकादिसूत्रोक्तमेवोपधिप्रत्युपेक्षणादिरूपं क्रियाकलापं करोति कारयतीति वा कारकस्तं, तथा धर्मध्यानं ध्यायतीति ध्याता तं ध्यातारं, इह यद्यपि सामान्यतः कारकमिति वचनाद् ध्यातारमिति विशेषणं गतार्थ तथापि तस्य विशेषतोऽभिधानं ध्यानस्य प्रधानपरलोकाङ्गताख्यापनार्थ, तथा यत एव भणकं कारकं ध्यातारं वा अत एव प्रभावकं ज्ञानदर्शनगुणा-13 नाम् ‘एकग्रहणे तज्जातीयग्रहणमिति' न्यायाचरणगुणानामपि परिग्रहः, तथा धिया राजते इति धीरस्तं, तथा श्रुतसागरपारगं ।नाणंमि दसणंमि अ तवविणए णिञ्चकालमुजुत्तं । अजं नंदिलखमणं सिरसा वंदे पसन्नमणं ॥२९॥
आर्यमङ्गोरपि शिष्यमार्यनन्दिलक्षपणं प्रसन्नमनसम्-अरक्तद्विष्टान्तःकरणं शिरसा वन्दे, कथम्भूतमित्याह-'ज्ञाने'
Jain Educ
a
tional
For Personal & Private Use Only
law.jalnelibrary.org