SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ५० ॥ श्रुतज्ञाने 'दर्शने' सम्यक्त्वे, चशब्दाच्चारित्रे च, तथा तपसि — यथायोगमनशनादिरूपे विनये - ज्ञानविनयादिरूपे 'नित्यकालं' सर्वकालम् 'उद्युक्तम्' अप्रमादिनं ॥ — as वायगवंसो जसवंसो अज्जनागहत्थीणं । वागरणकरणभंगिय कम्मपयडीपहाणाणं ॥ ३० ॥ पूर्वगतं सूत्रमन्यच्च विनेयान् वाचयन्तीति वाचकाः तेषां वंशः - क्रमभाविपुरुषपर्वप्रवाहः स 'वर्द्धता' वृद्धिमुपयातु, मा कदाचिदपि तस्य वृद्धिमुपगच्छतो विच्छेदो भूयादितियावत्, वर्द्धतामित्यत्राशंसायां पञ्चमी, कथम्भूतो वाचकवंश इत्याह- 'यशोवंशी' मूर्त्तो यशसो वंश इव पर्वप्रवाह इव यशोवंशः, अनेनापयशःप्रधानपुरुषवंशव्यवच्छेदमाह, तथाहि - अपयशःप्रधानानामपारसंसारसरित्पतिश्रोतः पतितानां परममुनिजनोपधृतलिङ्गविडम्बकानामलं सन्तानपरिवृह्येति, केषां सम्बन्धी वाचकवंशः परिवर्द्धतामित्याह - आर्यनागहस्तिनामार्यनन्दिलक्षपणशिष्याणां कथम्भूतानामि| त्याह- 'व्याकरणकरणभङ्गीकर्म्म प्रकृतिप्रधानानां तत्र व्याकरणं - संस्कृतशब्दव्याकरणं प्राकृतशब्दव्याकरणं च प्रश्न - व्याकरणं वा करणं-पिण्डविशुद्ध्यादि, उक्तं च – “पिंडेविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिले|हण गुत्तीओ अभिग्गहा चैव करणं तु ॥ १ ॥” भङ्गी - भङ्गबहुलं श्रुतं कर्म्मप्रकृतिः - प्रतीता, एतेषु प्ररूपणामधिकृत्य प्रधानानाम् ॥ १ पिण्डविशुद्धिः समितिर्भावना प्रतिमाश्च इन्द्रियनिरोधः । प्रतिलेखना गुप्तयः अभिप्रहाश्चैव करणं तु ॥ १ ॥ Jain Education International For Personal & Private Use Only स्थविरावलिका. गा. २८-३० १७ २२ ॥ ५० ॥ २६ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy