SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ सुन्दराणि खपरनितिहेतुतया कन्दराणि तपखिनामावासभूतत्वात् , तथा च लोकेऽपि प्रतीतम् 'अहिंसाव्यवस्थितः। तपखी'ति जीवदयासुन्दरकन्दराणि, तेषु ये उत्-प्रावल्येन कर्मशत्रुजयं प्रति दर्पिता उद्दर्पिता मुनिवरा एव टू शाक्यादिमृगपराजयात् मृगेन्द्राः तैराकीर्णो-व्याप्तस्तस्य, तथा मन्दरगिरेगुहासु निष्यन्दवन्ति चन्द्रकान्तादीनि संघस्य रत्नानि भवन्ति कनकादिधातवो दीप्ताश्चीषधयः, सङ्घमन्दरगिरिपक्षे तु अन्वयव्यतिरेकलक्षणा ये हेतवस्तेषां मन्दरेणी पम्यं. शतानि हेतुशतानि तान्येव धातवः, कुयुक्तिव्युदासेन तेषां खरूपेण भाखरत्वात्, तथा प्रगलन्ति-निष्यन्दमा- ५ नानि क्षायोपशमिकभावस्पन्दित्वात् श्रुतरत्नानि दीप्ताः-जाज्वल्यमाना ओषधयः-आमीषध्यादयो गुहासु-13 व्याख्यानशालारूपासु यस्य स तथा तस्य ॥ संवरः-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानं तदेव कर्ममलप्रक्षालनात् सांसारिकतडपनोदकारित्वात् परिणामसुन्दरत्वाच वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढः उज्झरः-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा, श्रावकजना एव स्तुतिस्तोत्रखाध्यायविधानमुखरतया प्रचुरा रवन्तो,मयूराः तैर्नृत्यन्तीव कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा तस्य ॥ विनयेन नता विनयनता ये प्रवरमुनिवराः त एव स्फुरन्यो विद्युतो विनयनतप्रवरमुनिवरस्फुरद्विद्युतः ताभिवलन्ति-भासमानानि | शिखराणि यस्य स तथा तस्य, इह शिखरस्थानीयाः प्रावचनिका विशिष्टा आचार्यादयो द्रष्टव्याः, विनयनतानां च प्रवरमुनिवराणां विद्युता रूपणं विनयादिरूपेण तपसा तेषां भासुरत्वात् , तथा विविधा गुणा येषां ते Join E l emasonal For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy