________________
| विधः, तद्यथा-वाचना प्रच्छना परावर्त्तना अनुप्रेक्षा धर्मकथा च, खाध्याय एव सन् - शोभनो नन्दिघोषो - द्वादश| विधतूर्यनिनादो यस्य स तथा तस्य, 'सज्झायसुनेमिघोसस्से' ति क्वचित्पाठः, तत्र स्वाध्याय एव शोभनो नेमिघोषो यस्येति द्रष्टव्यम्, इह शीलाङ्गप्ररूपणे सत्यपि तपोनियमप्ररूपणं तयोः प्रधानपरलोकाङ्गत्वख्यापनार्थ, अस्ति चायं | न्यायो यदुत - सामान्योक्तावपि प्राधान्यख्यापनार्थं विशेषाभिधानं क्रियते, यथा ब्राह्मणा आयाता वशिष्टोऽप्यायात इति, एवमन्यत्रापि यथायोगं परिभावनीयम् ॥ सङ्घस्यैव लोकमध्यवर्त्तिनोऽपि लोकधर्मासंश्लेषतः पद्मरूपकेण स्तवं | प्रतिपादयितुमाह
| कम्मरयजलोहविणिग्गयस्स सुयरयणदीहनालस्स | पंचमहवयथिरकन्नियस्स गुणकेसरालस्स ॥ ७ ॥ | सावगजणमहुअरिपरिवुडस्स जिणसूरतेयबुद्धस्स । संघपउमस्स भदं समणगणसहस्सपत्तस्स ॥ ८ ॥ कर्म्म-ज्ञानावरणाद्यष्टप्रकारं तदेव जीवस्य गुण्डनेन मालिन्यापादनाद्रजो भण्यते कर्म्मरज एव जन्मकारणत्वाज्जलौघः तस्माद्विनिर्गत इव विनिर्गतः कर्मरजोजलौघविनिर्गतः तस्य, इह पद्मं जलौघाद्विनिर्गतं सुप्रतीतं, जलौघस्योपरि तस्य व्यवस्थितत्वात्, सङ्घस्तु कम्मरेजोजलौघाद्विनिर्गतोऽल्पसंसारत्वादवसेयः, तथा च अविरतसम्यगदृष्टेरप्यपार्द्धपुद्गलपरावर्त्तमान एव संसारः, अत एव विनिर्गत इवेति व्याख्यातं, न तु साक्षाद्विनिर्गतः, अद्यापि संसारित्वात्, तथा श्रुतरत्नमेव दीर्घो नालो यस्य स तथा तस्य, दीर्घनालतया च श्रुतरत्नस्य रूपणं कर्म्मरजो
Jain Educational
For Personal & Private Use Only
संघस्य पद्
मेनौ पम्यं.
गा. ७-८
१०
१३
www.jainelibrary.org