SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ४३ ॥ रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः प्रोक्तम् ॥ १ ॥” आभ्यन्तरमपि षोढा, यत उक्तम् - " प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥ २ ॥ " संयमश्च तपांसि च संयमतपांसि तुम्बं च अराश्च - अरकाः तुम्वाराः संयमतपांस्येव यथासंख्यं तुम्बारा यस्य तत्तथा तस्मै संयमतपस्तुम्बाराय नमः, सूत्रे पष्ठी प्राकृतलक्षणाचतुर्थ्यर्थे वेदितव्या, उक्तं च- 'छंट्ठिविहत्तीऍ भन्नइ चउत्थी, ' तथा 'सम्मत्तपारियलस्स' सम्यक्त्वमेव पारियल - बाह्यपृष्ठस्य बाह्या भ्रमिर्यस्य तत्तथा तस्मै नमः गाथार्द्ध व्याख्यातं, तथा न विद्यते प्रति-अनुरूपं समानं चक्रं यस्य तदप्रतिचक्रं, चरकादिचक्रैरसमानमित्यर्थः, तस्य जयो भवतु 'सदा' सर्वकालं, सङ्घश्चक्रमिव सङ्घचक्रं तस्य ॥ सम्प्रति सङ्घस्यैव मार्गगामितया रथरूपकेण स्तवमभिधित्सुराह - भदं सीलपडागूसियस्स तवनियमतुरयजुत्तस्स । संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ ६ ॥ 'भद्रं' कल्याणं सङ्घरथस्य भगवतो भवत्विति योगः, किंविशिष्टस्य सतः इत्याह- 'शीलोच्छ्रितपताकस्य' शीलमेव - अष्टादशशीलाङ्गसहस्ररूपमुच्छ्रिता पताका यस्य स तथा भार्योढादेराकृतिगणतया तन्मध्यपाठाभ्युपगमादुच्छ्रितशब्दस्य परनिपातः, प्राकृतशैल्या वा, न हि प्राकृते विशेषणपूर्वापरनिपातनियमोऽस्ति, यथाकथञ्चित्पूर्वर्षिप्रणीतेषु वाक्येषु विशेषणनिपातदर्शनात्, 'तपोनियमतुरङ्गयुक्तस्य' तपः संयमाश्वयुक्तस्य, तथा स्वाध्यायः - पञ्च १ षष्टीविभक्त्या भण्यते चतुर्थी । Jain Education International For Personal & Private Use Only संघस्य च करथाभ्या मौपम्यं. गा. ५-६ ॥ ४३ ॥ २६ ainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy