SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ क्षयेण-निर्मूलमपगमेन निर्वृत्तं क्षायिकं, उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन निर्वृत्तं क्षायोपशमिक, उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्मच्छन्नाग्नेरिवानुद्रेकावस्था उपशमः तेन निवृत्तमौपशमिकम् , आह-12 18 औपशमिकक्षायोपशमिकयोः कः प्रतिविशेषः १, उच्यते, क्षायोपशमिके तदावारकस्य कर्मणः प्रदेशतोऽनुभवोऽस्ति 2 है न त्वौपशमिके इति । दर्शनमेवासारमिथ्यात्वादिकचवररहिता विशद्धरथ्या यस्य तत्तथा, तस्यामत्रणं हे दर्शनविशुद्धरथ्याक ! 'सेर्लोपः सम्बोधने हखो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचना(र्थत्वात् दीर्घ-18 यथा गोयमा इत्यत्र, सङ्घः-चातुर्वणः श्रमणादिसङ्घातः स नगरमिव सङ्घनगरं 'व्याघ्रादिभिर्गोणेस्तदनुक्ता'-BI विति समासो, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः, तस्यामत्रणं हे सहनगर! 'भद्रं' कल्याणं 'ते' तव भवत अखण्डचारित्रप्राकार! चारित्रं-मूलगुणाः अखण्डम्-अविराधितं चारित्रमेव प्राकारो यस्य तत्तथा 'मांसादिषु चेति' प्राकृतलक्षणात् चारित्रशब्दस्यादौ न्हवः तस्यामन्त्रणं हे अखण्डचारित्रप्राकार!, दीर्घत्वं प्रागिव ॥ भूयोऽपि सङ्घस्यैव संसारोच्छेदकारित्वाचक्ररूपकेण स्तवमाह संजमतवतुंबारयस्स नमो सम्मत्तपारियल्लम्स । अप्पडिचक्कस्स जओ होउ सया संघचक्कस्स ॥५॥ संयमः-सप्तदशप्रकारः यदुक्तम्- "पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः | सप्तदशभेदः॥१॥" तपो द्विधा-बाह्यमाभ्यन्तरं च, तत्र बाह्यं षड्विधं, यदुक्तम्-"अनशनमूनोदरता वृत्तेः संक्षेपणं JainERUT Smational For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy