SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ नकं कर्म रजो भण्यते, बध्यमानकर्माभावश्चायोगिसिद्धावस्थां गतस्य, नार्वाचीनावस्थायां, यत उक्तं सूत्रे"जाव णं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ उदीरइ तं तं (भाव) परिणमइ ताव णं अट्ठविहबन्धए वा सत्तविहबंधए वा छविहबन्धए वा एगविहबंधए वा, नो चेव णं अबन्धए सिआ" तत्र मिथ्यादृष्टयादयो मिश्रवर्जिता अप्रमत्तान्ता आयुर्बन्धकालेऽष्टानामपि कर्मणां बन्धकाः, शेषकाले त्वायुर्वजानां सप्लानां, एतेषामेव सप्तकर्मणां मिश्रापूर्वकरणानिवृत्तिबादरा अपि बन्धकाः, सूक्ष्मसम्पराया मोहायुर्वर्जानां षण्णां कर्मणाम् , उपशान्तमोहक्षीणमोहसयोगिकेवलिनः सातवेदनीयस्यैवैकस्य, तच सातवेदनीयं तेषां द्विसामयिक, तृतीयसमयेऽवस्थानाभावात् , शैलेशीप्रतिपत्तेरारभ्य पुनर्योगाभावादबन्धकाः, उक्तं च-"सत्तविहबंधगा होति पाणिणो आउवजगाणं तु । तह सुहुमसंपराया छविहबंधा विणिहिट्ठा ॥१॥ मोहाउयवजाणं पयडीणं ते उ बन्धगा भणिया । उवसंतखीणमोहा केवलिणो एगविहबन्धा ॥२॥ तं पुण दुसमयठिइयस्स बंधगा न उण संपरायस्स । सेलेसीपडिवन्ना अबंधगा होंति विण्णेया ॥३॥" अथ भगवान् संसारातीतत्वात् सदैव परमकल्याणरूपः तत्किमेवमुच्यते तस्य भद्रं भवतु?, न च १ यावद् एष जीव एजते व्येजते चलति स्पन्दते घटते क्षुभ्यति उदीरयति तं तं भावं परिणमति तावद् अष्टविधबन्धको वा सप्तविधबन्धको वा षडिधब-6 न्धको वा एकविधबन्धको वा; नो चैव अबन्धकः स्यात् । २ सप्तविधबन्धका भवन्ति प्राणिन आयुर्वर्जकानां तु तथा सूक्ष्मसंपरायाः षड्डिधबन्धा विनिर्दिष्टाः ॥१॥ मोहायुर्वर्जानां प्रकृतीनां ते तु बन्धका भणिताः । उपशान्तक्षीणमोहौ केवलिन एकविधबन्धाः ॥२॥ ते पुनर्द्विसमयस्थितिकस्य बन्धका न पुनः संपरायस्य । शैलेशीप्रतिपन्ना अबन्धका भवन्ति विज्ञेयाः॥३॥ salt Educa t ional For Personal & Private Use Only Jwww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy