________________
श्रीमलयगिरीया नन्दीवृत्तिः
१५
॥४१॥
धर्माः सर्वेऽपि लोलीभावेन व्यासाः तथाऽप्ययं धर्मी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानु
धर्मधर्मिपपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानुवेधेन सर्वधर्माणां धर्मिणा व्याप्तत्वा- भेदाभेददभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति सङ्गानुपपत्तेः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्यानभ्युपगमात् ,II.सिद्धिः नापि दोषक्षयवदात्मनोऽपि क्षयः, केवलाभेदस्यानभ्युपगमादिति सर्वं सुस्थम् । ननु येनैव क्रमेण भगवतोऽतिशयलाभः | तेनैव क्रमेण तदभिधानं युक्तिमत् नान्यथा, भगवतश्च प्रथमतोऽपायापगमातिशयस्य लाभः पश्चात् ज्ञानातिशयस्य | तत्किमर्थ व्युत्क्रमनिर्देशः?, उच्यते, "फलप्रधानाः समारम्भा" इति ज्ञापनार्थे । तथा 'भद्रं' कल्याणं भवतु, सुरैःशक्रादिभिः असुरैः-चमरादिभिर्नमस्कृतस्य, अनेन पूजातिशयमाह, न हि विभवानुरूपां भगवतः पूजामकृत्वा सुरा
२० सुरा नमस्कृतिक्रियायां प्रवृत्तिमातेनुः, तथाकल्पत्वात् , पूजां च ते कृतवन्तोऽष्टमहाप्रातिहार्यलक्षणां, तानि च महाप्रातिहाोण्यमूनि-"अशोकवृक्षःसुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि |जिनेश्वराणाम् ॥ १॥” पूजातिशयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति, न हि वागतिशयमन्तरेण तथा पूजाति-
Ima
॥४१॥ शयो भवति, सामान्यकेवलिनामदर्शनात् , तदेवं ज्ञानातिशयादयश्चत्वारो मूलातिशया उक्ताः, एते च देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्, एतेषु सत्सु तेषामवश्यं भावात् । तथा 'भद्रं' कल्याणं भवतु 'धूतरजसः' धूतं-कम्पितं 8 स्फोटितं रजो-बध्यमानं कमें येन स धूतरजाः तस्य, अनेन सकलसांसारिकक्लेशविनिर्मुक्तावस्थामाह, यतो वध्यमा- २६
Jain Education a
nal
For Personal & Private Use Only
ww.jainelibrary.org