SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ क्तिरनवस्था च तन्नैकान्तभेदपक्षे धर्मिधर्मभावः, नाप्येकान्ता भेदपक्षे, यतस्तस्मिन्नभ्युपगम्यमाने धर्म्ममात्रं वा स्याद्धम्मिमात्रं वा, अन्यथैकान्ताभेदानुपपत्तेः, अन्यतराभावे चान्यतरस्याप्यभावः, परस्परनान्तरीयकत्वाद्, धर्म्मनान्तरीयको हि धर्मी, धम्मिनान्तरीयकाश्च धर्म्माः, ततः कथमेकाभावेऽपरस्यावस्थानमिति ?, कल्पितो धर्म्मधर्मिभावः ततो न दूषणमिति चेत् तर्हि वस्त्वभावप्रसङ्गः, न हि धर्मविभावरहितं किञ्चिद्वस्त्वस्ति, धर्म्मधर्मिभावश्च कल्पित इति तदभावप्रसङ्गः, धर्म्मा एव कल्पिता न धर्मी तत्कथमभावप्रसङ्ग इति चेत्, न, धर्माणां कल्पनामात्रत्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात् तदभावे च धर्मिणोऽप्यभावापत्तेः, अथ तदेवैकं खलक्षणं सकलसजा|तीयविजातीयव्यावृत्त्येकखभावं, धर्मिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धर्म्माः, ततो न कश्चिन्नो दोषः, तदप्ययुक्तम्, एवं कल्पनायां वस्तुतोऽनै कान्तात्मकताप्रसक्तेः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, न हि येनैव स्वभावेन घटाद् व्यावर्त्तते पटः तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः तथाहि - घटाद् व्यावर्तते पटो घटव्यावृत्तिस्वभावतया स्तम्भादपि चेद् घटव्यावृत्तिस्वभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः, अन्यथा तत्स्वभावतया व्यावृत्त्ययोगात्, तस्माद्यतो यतो व्यावर्त्तते तत्तद्व्यावृत्तिनिमित्तभूताः स्वभावा अवश्यमभ्युपगन्तव्याः, ते च नैकान्तेन धर्मिणोऽभिन्नाः, तदभावप्रसङ्गात्, तथा च तदवस्थ एव पूर्वोक्तो दोषः, तस्माद् भिन्नाभिन्नाः, भेदाभेदोऽपि धर्म्मधर्मिणोः कथमिति चेत्, उच्यते, इह यद्यपि तादात्म्यतो धर्मिणां Jain Educational For Personal & Private Use Only १० १३ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy