________________
नीत्या ज्ञानादिषु यतमानस्य भावनाप्रकर्षे सत्यशेषरागादिकर्म्मपरिक्षयतो भवति मुक्तिः, एतेन यदुक्तम्- 'तत्स्नेहवशाच तत्सुखेषु परितर्षवान् भवतीत्यादि, तदपि निर्विषयमगन्तव्यम् उक्तनीत्या तत्त्ववेदिनः परितर्षाद्यभावादिति स्थितं । साङ्ख्याः पुनराहुः - प्रकृतिपुरुषान्तरपरिज्ञानान्मुक्तिः, तथाहि – “शुद्धचैतन्यरूपोऽयं, पुरुषः परमा| र्थतः । प्रकृत्यन्तरमज्ञात्वा, मोहात्संसारमाश्रितः ॥ १ ॥” ततः प्रकृतेः सुखादिखभावाया यावत् न विवेकेन ग्रहणं तावन्न मुक्तिः, केवलज्ञानोदये तु मुक्तिः, तदप्यसद्, आत्मा कान्तनित्यः, सुखादयस्तूत्पादव्ययधम्र्माणः, ततो विरुद्धधर्मसंसर्गादात्मनः प्रकृतेर्भेदः प्रतीत एव, किं न मुक्तिः ?, अथैतदेव संसारी न पर्यालोचयति ततो न मुक्तिः, यद्येवं तर्हि सर्वदाऽप्यमुक्तिरेव प्राप्तविवेकाध्यवसायस्यासंम्भवात् तथाहि-- यावत्संसारी तावन्न विवेकपरिभावनं, अथ च विवेकपरिभावने संसारित्वव्यपगमः, ततो विवेकाध्यवसायासम्भवात् न कदाचिदपि संसाराद्विप्रमुक्तिः, अपि चसृष्टेरपि प्रागात्मा केवल इष्यते, ततस्तस्य कथं संसारः ?, कथं वा मुक्तस्य सतो न भूयोऽपि ?, अथ सृष्टेः प्रागात्मनो | दिक्षा ततो दिक्षावशात्प्रधानेन सहैकतामात्मनि पश्यतः संसारः, मुक्तिस्तु प्रकृतेदुष्टतामवधार्य प्रकृतेर्विरागतो भवति, ततो न पुनः प्रकृतिविषया दिदृक्षेति न भूयः संसारः, तदप्ययुक्तम्, स्वकृतान्तविरोधात् तथाहि - दिदृक्षा नाम द्रष्टुमभिलाषः, स च पूर्वदृष्टेष्वर्थेषु तथास्मरणतो भवति, न च प्रकृतिः पूर्व कदाचनापि दृष्टा, तत्कथं तद्विपयौ स्मरणाभिलाषौ ?, अपि च - स्मरणाभिलाषौ प्रकृतिविकारत्वात् प्रकृतेर्भाविनौ, स्मरणाभिलाषाभ्यां च प्रकृत्य
Jain Educnternational
For Personal & Private Use Only
सांख्यभुक्तिनिरासः
५
१०
१३
www.jainelibrary.org