________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ३९ ॥
विदुषामास्थोपनिबन्धो युक्तः, यत्तु निःश्रेयसपदमधिरूढस्य सुखं तत्परमानन्दरूपमपर्यवसानं च तच्च प्रायो युक्तिलेशेन प्रागेवोपदर्शितम्, आगमतो वाऽनुसर्त्तव्यम्, आगमप्रमाणबलाद्धि सकलमपि परलोकादिखरूपं यथावदवगम्यते, नान्यतः तेन यदुच्यते प्रज्ञाकरगुप्तेन - ' दीर्घकाल सुखादृष्टाविच्छा तत्र कथं भवेदिति, तदपास्तमव सेयम्, आगमतो दीर्घकालमुखस्य दर्शनात्, न चागमस्य न प्रामाण्यं तदप्रामाण्ये सकलपरलोकानुष्ठानप्रवृत्त्यनुपपत्तेः, उपायान्तराभावात् तत आगमबलादुक्तखरूपमोक्षसुखमवेत्य तत्रागमे सर्वात्मना निषण्णमानसः संसाराद्विरक्तो यद्यत्संसारहेतुः तत्तत्परिजिहीर्षुररक्तद्विष्टः सर्वकर्मनिर्मूलनाय प्रकर्षेण यतते, तस्य चैवं प्रयतमानस्य कालक्रमेण विशिष्टकालादिसामग्री सम्प्राप्तौ प्रतनुभूतकर्मणः सकलमोहविकारप्रादुर्भाव विनिवृत्तेरणिमाद्यैश्वर्य लब्धावपि नौत्सुक्यमुपजायते, अत एव च तस्य मोक्षेऽपि न स्पृहाऽभिष्वङ्गापरपर्याया, तस्या अपि मोहविकारत्वात्, केवलं सा संसाराद्विरक्तिहेतुः खयमपि च परम्परानिरनुबन्धिनीत्यर्वाचीनावस्थायां प्रशस्यते, ननु यदि मोक्षेऽपि न स्पृहा कथं तर्हि तदर्थं प्रवृत्त्युपपत्तिः १, न, लोकेऽपि स्पृहाव्यतिरेकेणापि तत्तत्कार्यकरणाय प्रवृत्तिदर्शनात्, तथाहि - दृश्यन्ते | केचित् गम्भीराशया अभिष्वङ्गात्मिकां स्पृहामन्तरेणापि यथाकालं भोजनाद्यनुतिष्ठन्तः, तथाविधौत्सुक्यला म्पय्याद्यदर्शनाद्, अपि च-यथा न मोक्षे स्पृहा तथा न संसारेऽपि, संसारादत्यन्तं विरक्तत्वात्, ततः सकलमपि संसारहेतुं परित्यजन्तः कथमिव संसारपरिक्षये मोक्षस्पृहाव्यतिरेकेणापि न मुक्तिभाजः १, तदेवं सर्वत्र स्पृहारहितस्य सुत्रोक्त
Jain Education International
For Personal & Private Use Only
५ नैरात्म्यनिराकरणं.
१५
२०
॥ ३९ ॥
२६ Kainelibrary.org