SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ वासनाऽपरपर्यायः संस्कार आधीयते, स च यावदवतिष्ठते तावत्ताशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्काराभावे तु न, ततोऽन्वयिज्ञानाभ्युपगमे परमार्थतोऽनुसन्धातुरेकस्याभ्युपगमात्कार्यकारणभावावगमो निखिलजग-18 दुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते, तन्न नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, तस्या मिथ्यारूपत्वात् । यदपि च उक्तम्-आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रतरीत इति' तत्राचीनावस्थायामेतदिष्यत एव, अन्यथा मोक्षायापि प्रवृत्त्यनुपपत्तेः, तथाहि-यत एवात्मनि स्नेहः तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्नः, तत्र संसारे सर्वत्रापि दुःखमेव केवलं, तथाहिनरकगतौ कुन्ताग्रभेदकरपत्रशिरःपाटनशूलारोपकुम्भिपाकासिपत्रवनकृतकर्णनासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारं दुःखमेव निरन्तरं, नाक्षिनिमीलनमात्रमपि तत्र सुखं, तिर्यग्गतावपि अडशकशाभिघातप्राजनकतोदनवधबन्धरोगक्षुत्पिपासादिप्रभवमने दुःखं, मनुष्यगतावपि परप्रेषगुप्तिगृहप्रवेशधनवन्धुवियोगानिष्टसम्प्रयोगरोगादिजनितं विविधमनेकं दुःखं, देवगतावपि च परगतविशिष्टद्युतिविभवदर्शनात् मात्सर्यमात्मनि तद्विहीने विषादः च्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाङ्गनावियोगजमनिष्टजन्मसन्तापं वाऽवेक्षमाणस्य तप्तायोभाजननिक्षिप्तशफरादप्यधिकतरं दुःखं, यदपि च-मनुष्यगतौ देवगतौ वा किमप्यापातरमणीयं कियत्कालभावि | विषयोपभोगसुखं तदपि विषसम्मिश्रभोजनसुखमिव पर्यन्तदारुणत्वादतीव विदुषामनुपादेयम्, तन्न संसृतौ वापि १० Jain Educ a tional For Personal & Private Use Only Lww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy