SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ क्षणेभ्यः सन्तानः, किन्तु य एव कार्यकारणभावप्रवन्धेन क्षणानां भावः स एव सन्तानः; ततो न कश्चिदोषः, तदप्य-1 युक्तम् , भवन्मते कार्यकारणभावस्याप्यघटमानत्वात् , तथाहि-प्रतीत्यसमुत्पादमात्रं कार्यकारणभावः, ततो यथा विवक्षितघटक्षणानन्तरं घटक्षणः तथा पटादिक्षणोऽपि, यथा च घटक्षणात् प्रागनन्तरो विवक्षितो घटक्षणः तथा पटादिक्षणा अपि, ततः कथं प्रतिनियतकार्यकारणभावावगमः?, किञ्च-कारणादुपजायमानं कार्य सतो वा जायेत 4 असतो वा ?, यदि सतः तर्हि कार्योत्पत्तिकालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रसङ्गः, न च समकालयोः कार्यकारणभाव इष्यते, मात्रपत्याद्यविशेषाद्, घटपटादीनामयि परस्परं कार्यकारणभावप्रसङ्गः, अथासत इति पक्षः, तदप्ययुक्तम् , असतः कार्योत्पादायोगाद्, अन्यथा खरविषाणादपि तदुत्पत्तिप्रसक्तेः, न चायन्ताभाव- | प्रध्वंसाभावयोः कोऽपि विशेषः, उभयत्रापि वस्तुसत्त्वाभावात् , प्रध्वंसाभावे वस्त्वासीत् तेन हेतुरिति चेत् यदाऽऽसीत् * तदा न हेतुः अन्यदाच हेतुरिति साध्वी तत्त्वव्यवस्थितिः, अन्यच्च-तद्भावे भाव इत्यवगमे कार्यकारणभावावगमः, स च । तद्भावे भावः किं प्रत्यक्षेण प्रतीयते उतानुमानेन ?, न तावत्प्रत्यक्षेण, पूर्ववस्तुगतेन हि प्रत्यक्षेण पूर्व वस्तु परिच्छिन्न- १० मुत्तरवस्तुगतेन तृत्तरं, न चैते परस्परखरूपमवगच्छतो. नाप्यन्योऽनुसन्धाता कश्चिदेकोऽभ्युपगम्यते, तत एतदनन्त-14 रमेतस्य भाव इति कथमवगमः?, नाप्यनुमानेन, तस्य प्रत्यक्षपूर्वकत्वात् , तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवर्तते, लिङ्गलिङ्गिसम्बन्धश्च प्रत्यक्षेण ग्राह्यो नानुमानेन, अनुमानेन ग्रहणेऽनवस्थाप्रसक्तेः, न च कार्यकारणभावविषये Jain Educat i onal For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy