SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- गिरीया नन्दीवृत्तिः ॥ ३६ ॥ प्रत्यक्षं प्रावर्त्तिष्ट ततः कथं तत्रानुमानप्रवृत्तिः ?, एवं ज्ञानक्षणयोरपि परस्परं कार्यकारणभावावगमः प्रत्यस्तो वेदितव्यः, तत्रापि खेन खेन संवेदनेन खस्य खस्य रूपस्य ग्रहणे परस्परखरूपानवधारणादेतदनन्तरमहमुत्पन्नमेतस्य चाहं|१५ जनकमित्यनवगतः, तन्न भवन्मतेन कार्यकारणभावो, नापि तदवगमः, ततो याचितकमण्डनमेतद्-एकसन्ततिपतितत्वादेकाभिकरणं वन्धमोक्षादिकमिति । एतेन यदुच्यते-उपादेयोपादानक्षणानां परस्परं वास्यवासकभावादुत्तरोत्तर-18 वास्यवाविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम् , उपादानोपादेयभावस्यैवोक्तनीत्याऽनुप- सकभावपद्यमानत्वात् , योऽपि च वास्यवासकभाव उक्तः सोऽपि युगपद्भाविनामेवोपलभ्यते, यथा तिलकुसुमानां, उक्तं खंडनं. |चान्यैरपि-"अवस्थिता हि वास्यन्ते, भावा भावैरवस्थितैः” तत् कथमुपादेयोपादानक्षणयोर्वास्यवासकभावः ?, परस्परमसाहित्यात् , उक्तं च-“वास्यवासकयोश्चैवमसाहित्यान्न वासना । पूर्वक्षणैरनुत्पन्नो, वास्यते नोत्तरः क्षणः॥१॥ २० उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना॥" अपि च-वासना वासकाद्भिन्ना वा स्यादभिन्ना वा ?, यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति, वस्त्वन्तरवद्, अथाभिन्ना तर्हि न वाले वासनायाः सङ्क्रान्तिः, तदभिन्नत्वात् , तत्स्वरूपवत्, सङ्क्रान्तिश्चेत्तर्हि अन्वयप्रसङ्ग इति यत्किञ्चिदेतत् । यदप्युक्तं-सकलमपि जगद्रागद्वेषादिदुःखसङ्कलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमित्यादि, तदपि पूर्वापरासम्बद्धबन्धुकीभाषितमिव केवलधाष्ट्र्यसूचक, यतो भवन्मतेन क्षणा एव पूर्वोपरक्षणत्रुटितानुगमाः परमार्थसन्तः, क्षणानां चावस्थानकालमानमे- २५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy