SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ SEISSRUSSIAUSSAG कस्योपकर्ता उपघातको वा?, ज्ञानक्षणानां च क्षणमात्रावस्थायितया परमार्थत उपकर्तुमपकर्तुं वा अशक्यत्वात् , तन्न । तत्त्ववेदिनः पुत्रादिष्वात्मीयाभिनिवेशो नापि वैरिषु द्वेषो, यस्तु लोकानामात्मात्मीयाद्यभिनिवेशः सोऽनादिवासना-14 परिपाकोपनीतो वेदितव्यः, अतत्त्वमूलत्वात् , ननु यदि न परमार्थतः कश्चिदुपकार्योपकारकभावः तर्हि कथमुच्यते-भगवान् सुगतः करुणया सकलसत्त्वोपकाराय देशनां कृतवानिति, क्षणिकत्वमपि च यद्यकान्तेन तर्हि तत्त्ववेदी क्षणानन्तरं विनष्टः सन् न कदाचनाप्येवं भूयो भविष्यामीति जानानः किमर्थं मोक्षाय 3 यत्नमारभते ?, तदयुक्तम् , अभिप्रायापरिज्ञानात् , भगवान् हि प्राचीनायामवस्थायामवस्थितः सकलमपि जगद रागद्वेषादिदुःखसङ्कुलमभिजानानः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्त्तव्यमिति समुत्पन्नकृपाविशेषो नैरा-1 म्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्यसत्त्वानां निक्लेशक्षणोत्पादनाय प्रजाहितो राजेव वसन्ततिशुद्ध्यै सकदलजगत्साक्षात्करणसमर्थः खसन्ततिगतविशिष्टक्षणोत्पत्तये यत्नमारभते, सकलजगत्साक्षात्कारमन्तरेण सर्वेषामसूण-18 विधानमुपंक मशक्यत्वात् , ततः समुत्पन्नकेवलज्ञानः पूर्वाहितकृपाविशेषसंस्कारवशात् कृतार्थोऽपि देशनायां प्रवर्त्तते है। इति, तदेवं श्रुतमप्यात्मप्रज्ञया निर्दोष नैरात्म्यादि वस्तुतत्त्वं परिभाव्य भावतः तथैव भावयतो जन्तोर्भावनाप्रकर्षविशेषतो वैराग्यमुपजायते, ततो मुक्तिलाभः, यस्त्वात्मानमभिमन्यते न तस्य मुक्तिमम्भवो, यत आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रवर्तते, तत्लेहवशाच तत्सुखेषु परितर्पवान् भवति, तृष्णावशाच सुखसाधनेषु दोषान् Jain Educ a tional For Personal & Private Use Only T ww.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy