________________
श्रीमलयगिरीया नन्दीवृत्तिः
॥३४॥
SALMANDSOMGAMCMOURUS
फलगोचरा यथाऽऽगममेवमवसेया-"ज कुच्छियाणुयोगो पयइविसुद्धस्स होइ जीवस्स । एएसि मो नियाण बुहाण न य सुंदरं एयं ॥१॥ रूबंपि संकिलेसोऽभिस्संगो पीइमाइलिङ्गो उ । परमसुहपञ्चणीओ एयंपि असोहणं चेव ॥२॥ विसओ य भंगुरो खलु गुणरहिओ तह य तहतहारूयो । संपत्ति निष्फलो केवलं तु मूलं अणत्थाणं ॥३॥ जम्मजरामरणाईविचित्तरूवो फलं तु संसारो । वुहजणनिवेयकरो एसोऽवि तहाविहो चेव ॥ ४ ॥” अपि च-18 सूत्रानुसारेण ज्ञानादिषु यो नैरन्तर्येणाभ्यासः तद्रूपाऽपि भावना वेदितव्या, तस्यापि रागादिप्रतिपक्षभूतत्वात्, न हि तत्त्ववृत्त्या सम्यग्ज्ञानाद्यभ्यासे व्यापृतमनस्कस्य स्त्रीशरीररामणीयकादिविषये चेतः प्रवृत्तिमातनोति, तथाऽनुपलम्भात् । शौद्धोदनीयाः पुनरेवमाहुः-नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, नैरात्म्यादिभावनायाः सकलरागादिविपक्षभूतत्वात् , तथाहि-नैरात्म्यावगतौ नात्माभिनिवेशः, आत्मनोऽवगमाभावाद्, आत्माभिनिवेशाभावाच न पुत्रभ्रातृकलत्रादिष्वात्मीयाभिनिवेशः, आत्मनो हि य उपकारी स आत्मीयो, यश्च प्रतिघातकः स द्वेष्यः, यदा त्वात्मैव |न विद्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वपूर्वहेतुप्रतिबद्धा ज्ञानक्षणा एव तथा तथोत्पद्यन्ते तदा कः
नैरात्म्यखंडनं.
॥३४॥
| १ यत् कुत्सितेऽनुयोगः प्रकृतिविशुद्धस्य भवति जीवस्य । एतस्य ( एतत् ) निदानं बुधानां न च सुन्दरमेतत् ॥१॥ रूपमपि संक्लेशः अभिष्वाः प्रील्या| दिलिमस्तु । परमसुखप्रत्यनीक एषोऽप्यशोभन एव ॥ २॥ विषया अपि भकुराः खलु गुणरहिताः तथा च तथा तथारूपाः । संप्राप्तिनिष्फलाः केवलं मूलं त्वनानाम् ॥३॥ जन्मजरामरणादिविचित्ररूपः फलं तु संसारः । बुधजननिर्वेदकर एषोऽपि तथाविध एव ॥ ४ ॥
२५
dain Education International
For Personal & Private Use Only
www.jainelibrary.org