________________
व्यभिचारि, द्वयेनापि विमुक्तायां क्वचिद्रागदर्शनात् , तस्मादभ्यासजनितोपचयपरिपाकं कम्मैव विचित्रखभावतया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागादिहेतुरिति कर्महेतुका रागादयः । एतेन यदपि कश्चिदाह-पृथिव्यादिभूतानां 2 धर्मा एते रागादयः, तथाहि-पृथिव्यम्बुभूयस्त्वे रागः तेजोवायुभूयस्त्वे द्वेषो जलवायुभूयस्त्वे मोह इति, तदपि । निराकृतमवसेयं, व्यभिचारात्, तथाहि-यस्यामेवावस्थायांरागः सम्मतः तस्यामेवावस्थायां द्वेषो मोहोऽपि च दृश्यते, तत एतदपि यत्किञ्चित् , तस्मात् कर्महेतुका रागादयस्तकर्मनिवृत्तौ निवर्तन्ते, प्रयोगश्चात्र--ये सहकारिसम्पाद्या | यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणो, यथा रोमहर्षादयो वह्निवृद्धौ, भावनोपधानादप|कर्षिणश्च सहकारिसम्पाद्या रागादय इति, अत्र सहकारिसम्पाद्या इति विशेषणं सहभूखभावबोधादिव्यवच्छेदार्थ, यदपि च प्रागुपन्यस्तं प्रमाणं-यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाशमिति, तदप्यप्रमाणं, हेतोरनैकान्ति-13 कत्वात् , प्रागभावेन व्यभिचारात् , तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथा कार्यानुत्पत्तेः, भाव- भावनाजनाधिकारी च सम्यग्दर्शनादिरत्नत्रयसम्पत्समन्वितो वेदितव्यः, इतरस्य तदनुष्ठानप्रवृत्त्यभावेन तस्य मिथ्यारूप- न्यःक्षयः त्वात् , आह च-"नाणी तवंमि निरओ चारित्ती भावणाएँ जोगोत्ति” सा च रागादिदोषनिदानस्वरूपविषय
१ज्ञानी तपसि निरतश्चारित्री भावनाया योग्य इति ।
Jain Education.international
For Personal & Private Use Only
www.jainelibrary.org