SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीमलयगिरीया नन्दीवृत्तिः ॥ ३३ ॥ कफहेतुको रागः स्यात् ततः कफवृद्धौ रागवृद्धिर्भवेत् पित्तप्रकर्षे तापप्रकर्षवत् न च भवति, तदुत्कर्षोत्थपीडा - बाधिततया द्वेषस्यैव दर्शनात्, अथ पक्षान्तरं गृहीथा यदुत न कफहेतुको रागः किन्तु कफादिदोषसाम्यहेतुकः, तथाहि - कफादिदोषसाम्ये विरुद्धव्याध्यभावतो रागोद्भवो दृश्यते इति, तदपि न समीचीनं, व्यभिचारदर्शनात्, न हि यावत् कफादिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वेषाद्युद्भवस्याप्यनुभवात् न च यद्भावेऽपि यन्न भवति तत्तद्धेतुकं सचेतसा वक्तुं शक्यम् । अपिच एवमभ्युपगमे ये विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च तेऽपि रागिणो दृश्यन्ते । स्यादेतद् - अलं चसूर्या, तत्त्वं निर्वच्मि शुक्रोपचय हेतुको रागो नान्यहेतुक इति, तदपि न युक्तम्, एवं ह्यत्यन्त स्त्री सेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागिता न स्याद्, अथ चैतेऽपि तस्यामप्यवस्थायां निकामं रागिणो दृश्यन्ते, किञ्च यदि शुक्रस्य रागहेतुता तर्हि तस्य सर्वस्त्रीषु साधारणत्वान्नैकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो रागः, अथोच्येत - रूपस्यापि कारणत्वाद्रूपाति - शयलुब्धः तस्यामेव रूपवत्यामभिरज्यते, न योषिदन्तरे, उक्तं च - "रूपातिशयपाशेन, विवशीकृतमानसाः । खां योषितं परित्यज्य, रमन्ते योषिदन्तरे ॥ १॥" तदपि न मनोरमं रूपरहितायामपि क्वापि रागदर्शनात्, अथ तत्रोपचारविशेषः समीचीनो भविष्यति तेन तत्राभिरज्यते, उपचारोऽपि च रागहेतुर्न रूपमेव केवलं तेनायमदोष इति, तदपि Jain Education International For Personal & Private Use Only १५ शुक्रहेतुकताखंडनं. ॥ ३३ ॥ २५ www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy