________________
परिणतिविशेषः तावदेक एव कश्चिदोषः प्राप्नोति, अथ च तदवस्थ एव कफादिपरिणतिविशेष सर्वेऽपि दोषाः क्रमेण परावृत्त्य परावृत्त्योपजायमाना उपलभ्यन्ते, अथादृश्यमान एव केवलकार्यविशेषदर्शनोत्रीयमानसत्ताकः तदा तदा
तत्तद्रागादिदोषहेतुः कफादिपरिणतिविशेषो जायते तेन न पूर्वोक्तदोषावकाशः, ननु यदि स परिणतिविशेषः सर्वथा1ऽननुभूयमानखरूपोऽपि परिकल्प्यते तर्हि कम्मैव किं नाभ्युपगम्यते ?, एवं हि लोकशास्त्रमार्गोऽप्याराधितो भवति,
अपिच-स कफादिपरिणतिविशेषः कुतः तदा तदाऽन्योऽन्यरूपेणोपजायते इति वक्तव्यम् ?, देहादिति चेत् .. हैननु तदवस्थेऽपि देहे भवद्भिः कार्यविशेषदर्शनतः तस्यान्यथाऽन्यथा भवनमिष्यते, तत्कथं तद् देहनिमित्तं, न हि
यदविशेषेऽपि यद्विक्रियते स विकारः तद्धेतुक इति वक्तुं शक्यम् , नाप्यन्यो हेतुरुपलभ्यते, तस्मात्तदप्यन्यथा-12
न्यथाभवनं कर्महेतुकमेष्टव्यम् , तथा च सति कम्मैवैकमभ्युपगम्यतां किमन्तर्गडुना तद्धेतुतया कफादिपहरिणतिविशेषाभ्युपगमेन ? । किञ्च-अभ्यासजनितप्रसराः प्रायो रागादयः, तथाहि-यथा यथा रागादयः
रागादी| सेव्यन्ते तथा तथाऽभिवृद्धिरेव तेषामुपजायते, न प्रहाणिः, तेन समानेऽपि कफादिपरिणतिविशेषे नामभ्यासतदवस्थेऽपि च देहे यस्येह जन्मनि परत्र वा यस्मिन् दोषेऽभ्यासः स तस्य प्राचुर्येण प्रवर्तते, शेषस्तु जन्यता. मन्दतया, ततोऽभ्याससम्पाद्यकर्मोपचयहेतुका एव रागादयो न कफादिहेतुका इति प्रतिपत्तव्यम् । अन्यच्च-यदि
SARALAMAADMROSADS
१निरर्थकेन ।
Jan Le
Far Personal & Private Use Only
www.jainelibrary.org