SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीमलय- 8 नामपि निवृत्तिः। अत्राहुः वार्हस्पत्याः-नैते रागादयो लोभादिकर्मविपाकोदयनिवन्धनाः, किन्तु कफादिप्रकृति-18 कफादिगिरीया हूँ हेतुकाः, तथाहि-कफहेतुको रागः पित्तहेतुको द्वेषो वातहेतुकश्च मोहः, कफादयश्च सदैव संनिहिताः, शरीरस्य है | हेतुकतानन्दीवृत्तिः है तदात्मकत्वात् , ततो न वीतरागत्वसम्भवः, तदयुक्तम् , रागादीनां कफादिहेतुकत्वायोगात् , तथाहि–स तद्धेतुको खण्डनं. ॥३२॥ यो यं न व्यभिचरति, यथा धूमोऽग्निम् , अन्यथा प्रतिनियतकार्यकारणभावव्यवस्थानुऽपपत्तेः, न च रागादयः कफादीन् । न व्यभिचरन्ति, व्यभिचारदर्शनात् , तथाहि-वातप्रकृतेरपि दृश्येते रागद्वेषौ कफप्रकृतेरपि द्वेषमोहौ पित्तप्रकृ-18 | तेरपि मोहरागौ, ततः कथं रागादयः कफादिहेतुकाः ?, अथ मन्येथाः-एकैकाऽपि प्रकृतिः सर्वेषामपि दोषाणां पृथक् पृथग्जनिका तेनायमदोष इति, तदयुक्तम् , एवं सति सर्वेषामपि जन्तूनां समरागादिदोषप्रसक्तेः, अवश्यं हि प्राणिनामेकतमया कयाचित्प्रकृत्या भवितव्यम् , सा चाविशेषेण रागादिदोषाणामुत्पादिकेति सर्वेषामपि समानरागादिताप्रसक्तिः, अथास्ति प्रतिप्राणि पृथक् पृथगवान्तरः कफादीनां परिणतिविशेषः तेन न सर्वेषां समरागादिताप्रसङ्गः, तदपि न साधीयो, विकल्पयुगलानतिक्रमात् , तथाहि-सोऽप्यवान्तरः कफादीनां परिणतिविशेषः सर्वेपामपि रागादीनामुत्पादक आहोखिदेकतमस्यैव कस्यचित् ?, तत्र यद्याद्यः पक्षस्तर्हि यावत् स परिणतिविशेषस्तावदे-18|॥३२॥ ककालं सर्वेषामपि रागादीनामुत्पादप्रसङ्गः, न चैककालमुत्पद्यमाना रागादयः संवेद्यन्ते, क्रमेण तेषां संवेदनात्, न खलु रागाध्यवसायकाले द्वेषाध्यवसायो मोहाध्यवसायो वा संवेद्यते, अथ द्वितीयपक्षः तत्रापि यावत् स कफादि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600244
Book TitleNandisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1924
Total Pages514
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy